SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १५०,या का पराशरमाधवः। नाशयन्याशु पापानि देवानामर्थनं तथा" इति । मनुरपि "अतिथिं पूजयेद्यस्तु श्रान्तं चादुष्टमागतम् । महषं गो-शतं तेन दत्तं स्वादिति मे मतिः” इति ॥ विष्णुरपि "खाध्यायेनानिहोत्रेण यजेन तपसा तथा । नावाप्नोति ग्टही लोकान् यथा त्वतिथि-पूजनात्" इति। वैश्वदेवाधर्थमोदनं पाचयित्वा तेन होमे कृते मति योऽवशिष्ठश्रोदनः म 'हुत-शेषः' । तमेव भुञ्जीत, न तु ख-भोजनार्थ पाचयेत्। यदाह भगवान्, "यज्ञ-शिष्टाशिनः सन्तोमुच्यन्ते सर्व-किल्विषैः । भुञ्जते ते त्वचं पापा ये पचन्यात्म-कारणात्" इति । 'हुत-शेषम्' इत्यत्र इत-शब्दो महाभारते व्याख्यातः, "वैश्वदेवादयो होमाइतमित्युच्यते बुधैः" इति । तस्य शेषोडत-शेषः । स च हुत-शेष-शब्दो देवर्षि मनुष्यादिपूजोपयुकावशिष्ठमुपलक्षयति। तदाह मनुः, "देवानपीन मनुष्यांश्च पितॄन् ग्टह्याश्च देवताः । पूजयित्वा ततः पश्चाद्ग्रहम्थः शेषमुग्भवेत् । अघं स केवलं भुते यः पचत्यात्म-कारणात् । यज्ञशिष्ठाशनं ह्येतत् सतामन्नं विधीयते"-दति। * श्रान्तं वा दुवमानसम्, इति स. मा० शा० पुस्तकेषु पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy