________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः।
[१५०,था.का.
व्यर्थमब्राह्मणे दानं पतिते तस्करे तथा। गुरोश्चाप्रीति-जनके कृतघ्ने ग्राम-याजके ॥ वेद-विक्रयके व यस्य चोपपतिर्महे । स्त्रीभिर्जितेषु यद्दत्तं व्याल-ग्राहे तथैवच ॥ ब्रह्म-बन्धौ च यदत्तं यद्दत्तं सुषलीपतौ ।
परिचारेषु यद्दत्तं वृथादानानि षोड़श” ॥ इति । महाभारते,
"पङ्गन्धवधिराभूकाव्याधिनोपहताश्च ये।
भर्तुव्यास्ते महाराज, न तु देयः प्रतिग्रहः" ॥ इति । पात्रोपेक्षणमपात्र-दानञ्च मनुर्निषेधति,__अनईते यद्ददाति न ददाति यदहते ।
अहानहापरिज्ञानादानाद् धर्माच हीयते” ॥ इति । भविष्योत्तरे देव-स्वरूपं निरूपितम् ,
"यद्यदिष्टं विशिष्टश्च न्याय-प्राप्तञ्च यद्भवेत् ।
तनद् गुणवते देयमित्येतद्दान-लक्षणम्"॥ इति । अशेषस्य देवत्व-प्राप्तौ विशेषमाह याज्ञवल्क्यः ,
"स्व-कुटुम्बाविरोधेन देयं दार-सुतादृते ।
नान्वये(१) मति सर्वखं यचान्यस्मै प्रतिश्रुतम्" ॥ इति । वृहस्पतिरपि,
* छनईणे यद्ददाति नददाति यदहण, इति स मो• पुस्तकयोः पाठः ।
--
--
-
-
(१) अन्वयः सन्ततिः।
For Private And Personal