________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
परापूरमाधव:
१०,श्रा का
स्याध्ययनस्य प्रयोक्रुमशक्यत्वात्, अनित्यं चाध्यापमं जीवन कामस्य(१) तत्राधिकारात् । तदाह मनुः,
"षणान्नु(२) कर्मणामस्य त्रीणि कर्माणि जीविका ।
याजनाध्यापने चैव विशुद्धाच्च प्रतिग्रहः" | इति। अध्ययनन्त नित्यम्, अकरणे प्रत्यवायस्य मनुना स्मृतत्वात् ;
"योऽनधीत्य दिजोवेदानन्यत्र* कुरुते श्रमम् ।
म जीवन्नेव शूद्रत्वमा गच्छति सान्वयः" ॥ इति । अतः स्व-विधि-प्रयुक्रमेवाध्ययनम् । न चान्योन्याश्रयः, अध्ययनात् प्रागेव सन्ध्या-वन्दनादाविव पित्रादि-मुखेन विध्यर्थावगमात्, पित्रादिभिर्नियमितत्वादेव माणवकस्य न अप्रबुद्धत्व-दोषोऽस्तिो । यद्यपि, तैत्तिरीय-शाखायाम,-"स्वाध्यायोऽध्येतव्यः” इति वाक्यस्य पञ्च-महायज्ञ-प्रकरणे पठितत्वाद् ब्रह्मयज्ञ-विधि-रूपता,तथाप्यशेषस्मतिषपनयन-पूर्वकस्थाध्ययनस्य प्रपञ्चामानत्वान्मूल-भूत-श्रुतिरनुमातव्या? । विवरणकारस्तु,-'अध्यापयोत' इत्यत्र णिजथस्य जीवनार्थत्वेन रागतः प्राप्तत्वात्, प्रकृतस्याध्ययनस्य विधेयतामभिप्रेत्य, “अष्टवर्षाब्राह्मण-उपगछत्माऽधीयोत"-इति वाक्यं विपरिणमथ्या उप
* वेदमन्यत्र,-इति ग्रन्थान्तरे पाठः ।। + पित्रादिनियमितत्वात् एवं माणब कस्य नाप्रबुद्धत्वे दोघोऽपि,-इति ० पुस्तके पाठः। 1 ब्रह्मयज्ञबिघिरयम्, इति म० पुस्तके पाठः।
श्रुतिरानुगन्तव्या,-इति स• सा० पुस्तकयोः पाठः । पाविपरीतान्योययादयामास,... इति स. सो० पुस्तकयोः पाठः। (१) जीवनं जीविका रत्तिरिति यावत् । (२) पखां यजनयाजनाध्ययनाध्यापनदानप्रतिग्रहरूपाणाम् ।
For Private And Personal