SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १५०,या.का.) पराशरमाधवः। ९३६ व्यवहितत्वात् नदेव पुनः स्मार्यते । अथ वा, पूर्वानं युग-सामर्थश्रवण-विषयम्, ददन्तु धर्म-श्रवण-विषयम्,* इत्यपुनरुतिः ॥ वक्ष्यमाण-धर्म-जातस्यां परम-पुरुषार्थ-हेतुतां कैमुतिक-न्यायेन(१) अभिधातुं ग्रन्थ-पाठ-तदर्थ-ज्ञाने(२) प्रशंमति,पराशर-मनं पुण्यं पवित्रं पाप-नाशनम् । चिन्तितं ब्राह्मणार्थाय धर्म-संस्थापनाय च ॥३६॥ इति । पराशरण प्रक्रि ग्रन्थ-जातं 'पराशर-मतं', तच्च पाठ-मात्रए पुण्य-प्रदम् । पुण्यञ्च विविधम् , इष्ट-प्रापकमनिष्ट-निवर्त्तकञ्च । तदुभयं 'पवित्र-पापनाशन'-शब्दाभ्यां विवक्ष्यते । तदेव ग्रन्थ-जातं 'चिन्तितम्' अर्थताविचारितं मत् पूर्ववत् पुण्य-प्रदं भवति। अर्थविचारस्य प्रयोजनं वेधा,-खानुष्ठानं परोपदेशश्च । तदुभय 'ब्राह्मम'-इत्यादि-पद-दयेनोच्यते । ब्राह्मणम्यार्थाब्राह्मण्यनिमित्तं? खधर्मानुष्ठानमिति यावत् । 'धर्म-संस्थापनम्' परेषां धर्मोपदेशे * इदन्तु श्रवणं धर्मविषयम्, इति मु० पुस्तके पाठः। धर्मज्ञानस्य,-इति स० सो पुस्तकयाः पाठः । + पराशयं मतं,-इति सो० मू. पस्तके, पाराशरमतं,-इति मु. मू० पुस्तके पाठः। 5 ब्राह्मणार्थोब्राह्मणनिमित्त, इति मु० पुस्तके पाठः । (१) कैमुतिकन्यायश्च,-"समवायश्च यत्रैषां तत्रान्ये बहवोमलाः। ननं सर्व्व क्षयं यान्ति किमुतैकं नदीरजः” इति छन्दोगपरिशिष्वा क्यादु यः। (२) द्वितीयादिवचनान्तं पदमिदम् । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy