________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१२८
घराशरमाधवः ।
[ १०,या का।
"जराय-जाग्र-जाश्चैव जीवाः संवेद-जाश्च ये । अबध्याः सतएवैते बुधैः समनुवर्णितम् । निश्चयार्थं विबुद्धानां प्रायश्चित्तं विधीयते । अनस्थि-शतमेकन्तु* यदि प्राणैर्चियोजयेत् । उपाध्यैकाहमादध्यात् प्राणायामांस्तु षोड़शा । त्रि-स्नानमुदके कृत्वा तस्मात् पापात् प्रमुच्यते । अस्थिमवधेतु द्विगुणं प्रायश्चित्तं विधीयते । अनेन विधिना वाऽपि स्थावरेषु नसंशयः । कायेन पद्भ्यां इम्ताभ्यामपराधाद्विमुच्यते । चतुर्गुणं कर्म-कृते दिगुणं वाक-प्रदृषिते ।
कृत्वा तु मानसं पापं तथैवैक-गुणं स्मृतन्” । इति। 'च'कारो याज्ञवल्क्य-मन्वादि-समुच्चयार्थः । प्रसिद्धा हि तदीय-ग्रन्थेषु प्रायश्चित्ताध्यायाः । पराशर-ग्रहणन्तु कलि-युगाभिप्रायम् । सर्वेष्वेव कल्पेषु पराशर-स्मृतेः कलि-युग-धर्म-पक्ष-पातिवात् प्रायश्चिते स्वपि कलि-युग-विषयेषु पराशरः प्राधान्येनादरणीयः । अतः, पराशर-मन्वादि-प्रोत प्रायश्चित्तं तत्तत्-पाप-परिहाराय विद्वत्-परिषदा विधीयते । एतदुतं भवति,-नाना-मुनिभिस्तत्तद्-युग-सामर्थ्यस्य प्रायश्चित्तस्य प्रपञ्चित्वात् तभयं प-लोच्य
* यनस्थिमल्प मेकतु, इति मु० पुस्तके पाठः । + दादश, - इति स० स० पुस्तकयोः पाठः ।
अस्थिबन्धेष,-इति मु. पुस्तके पाठः । $ वाक्यदूषिते,-इति स० सो पुस्तकयाः पाठः ।
For Private And Personal