________________
Shri Mahavir Jain Aradhana Kendra
पंचलिंगी
॥ १ ॥
www.kobatirth.org
संबोधसप्तत्याम् ।
दुर्लभराज्ये खरतरबिरुद मधुश्चैत्यवासिनो जित्वा । विदधुश्च वसति वासं, जिनेश्वरास्तेऽभवंस्तदनु ॥ १ ॥
उपदेशसप्ततिकायाम् ।
Acharya Shri Kailassagarsuri Gyanmandir
पुरा श्रीपत्तने राज्यं, कुर्वाणे भीमभूपतौ । अभूवन्भूतले ख्याताः, श्रीजिनेश्वरसूरयः ॥ २ ॥
एवमादिभिः प्रमाणैरवगम्यते -- विवदन्ते चात्र केचिचचचश्ववः, विक्रमार्के चतुरुत्तरद्वादशशततमे ( १२०४ ) जिनदत्तसूरिणैव | खरतरपदवी लब्धा न तु जिनेश्वरसूरिभिरिति, तदेतदभिनिवेशतो मिध्यानिरूपणमिवावभासते, निगदितप्रमाणद्वयेऽपि जिनेश्वरसूरिणामेव दुर्लभराजात् पदवीप्राप्तिदर्शनात् — भीमभूपति राज्यकरणकाल एव जिनेश्वरसूरीणां सत्वप्रतिपादनाच्च जिनेश्वरसूरिसमकालीनो दुर्लभराजो न भवतीत्यपि मिथ्याप्रलाप एव, अत एव गूर्जररासमालायामन्यत्र च इतिहासकर्तारः श्रीजिनेश्वरसूरिपार्श्वे दुर्लभराजोऽधीतवानित्यप्यवर्णयन् — एमिश्व जिनेश्वरसूरिभिर्विरचिताः कथाकोशषट्स्थानकप्रभृत्यादयो ग्रन्था उपलभ्यन्ते – यद्यप्येतद् पुस्तकमुद्रणावसरे प्रायशः शुद्धप्रायमेव पुस्तकद्वयं प्राप्तं तदनुसारेणास्मन्मनीषया च शोधितवत्यप्यस्मिन् चर्मचक्षुर्दोषादुद्धिमान्याद्वा ये केचनाशुद्धा भवेयुस्तान्धीधनास्संशोधयंत्वित्यलंविस्तरेण
For Private and Personal Use Only
प्रस्तावना.
॥ १ ॥