________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बृहद्वृत्तिः
पंचलिंगीकारिण एव सत्त्वोपगमात यदाह-अर्थक्रियासमर्थ यत्तदेव परमार्थसत्, एवं च सकलस्यापि सन्तानस्यासत्त्वेन कस्योच्छेदो
मुक्तिः स्यात, अथ स्वसन्तानवर्तिनं ज्ञानक्षणमजनयन्नपि असो सन्तानान्तरभाविनं सर्वज्ञज्ञानक्षणं जनयिष्यति तमालंब्य तस्योत्पत्ते, इतरथा सर्वज्ञताहाने, तथा चैतावतापि अर्थक्रियाकारिखात्तस्य सचमुपपत्स्यते इति चेन, एवं रूपसन्तानान्तरज्ञानजनकत्वस्याऽन्त्यक्षणवत् तत्प्राच्यक्षणानामपि सम्भवात् तद्वदेव तानपि आलम्ब्य सवेज्ञज्ञानोत्पादात् , तथा चान्त्यक्षणवत तेषामपि सन्तानान्तरज्ञानजनकखेनैव सत्वं स्यात् न खोपादेयक्षणजनकत्वेन तथा च सर्वसन्तानोच्छेदापत्तिः, अथ तेषां स्खसन्तानवत्तिज्ञानक्षणजनकखेनैव सच्चमिष्यते तर्हि तद्वदेवान्त्यक्षणस्यापि तेनैव तदस्तु को निवारयिता, रागादिकर्मवासनाविकल|तया सर्वज्ञस्य प्राच्यक्षणेभ्योऽन्त्यक्षणस्या विशेषात् , एवं च खसन्तानवयुत्तरक्षणान्तरजनकतयाऽन्त्यक्षणखानुपपत्तिप्रसङ्गः, अथ खसन्तानसन्तानान्तरलक्षणक्षणद्वयजनकतया केवलसन्तानान्तरक्षणजनकतया चोभयेषामपि अस्ति विशेषः, तेन खसन्तानक्षणजनकतयान्त्यक्षणत्वं सन्तानान्तरक्षणजनकतया च सत्त्वमस्येति चेत्, तर्हि वर्तमानक्षण इवातीतानागतक्षणयोरपि तस्य सत्त्वप्रसङ्गः, तत्रापि सर्वज्ञज्ञानलक्षणार्थक्रियाकारिखात् , तदानीं तस्यासत्त्वेन तदनभ्युपगमे वा सर्वज्ञस्यासर्वज्ञखापत्तेः, अथानागतक्षणानुत्पादलक्षणार्थक्रियाकारितयाऽन्त्यक्षणस्य सत्त्वं भविष्यतीति चेन्न, अनागतानुत्पादस्य प्रागभावत्वेनानादिसिद्धतया करणायोगात्, अपि चान्त्यक्षणः खसन्तानवर्तिज्ञानं स्वरूपशक्तिविरहाद् वा न जनयति, उत्तरक्षणे शरीरादि सहकारिप्रध्वंसाद् वा, तदतिरिक्तातीन्द्रियशक्तिप्रतिबन्धाद् वा, न प्रथमः, तदाहि असौ वन्ध्यासुतज्ञानतुल्यतया सन्तानान्तरज्ञानमपि न जनयेत्, न द्वितीयः, संसारावस्थान्त्यक्षण इव संसृत्वरस्य मरणावस्थान्त्यक्षणोऽपि आमुष्मिकजन्मभाविज्ञानं
मन-CCCCCE
॥१८
For Private and Personal Use Only