________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SASSAMANAKAM
न्याय्यं शिष्यज्ञानं प्रति तत्पूर्वज्ञानवदुपाध्यायज्ञानस्यापि उपादानखप्रसङ्गात् , अथैवमपि अन्त्यक्षणः सन्तानान्तरमुपाददीत, एवं तर्हि तस्य सन्तानान्तरजनन एवोपक्षीणतया कस्यामुत्र सुकृतदुष्कृतफलोपभोगः स्यात् , अथ संसारावस्थायामन्त्यक्षण एव सन्तानान्तरं प्रसूते, नतु संसारान्तर्वर्तिमरणशरीरान्त्यज्ञानक्षणोऽपि तस्य प्रेत्यभाविनं वसन्तानमेव प्रति प्रसवितृत्वोपगमात्, तथा च प्रकृतादन्त्यक्षणात् सन्तानान्तरमारभमाणादपि इष्ट एवास्माकं मुक्तिलाभेन परलोकाभाव इति चेन्न, उभयोरपि अन्त्यक्षणयोर्नियामकाभावेन सन्तानान्तरजनकलस्य दुवारखान् तथाचोभयत्रापि परलोकाभावः समान एव प्रसज्यते, अथ कर्मवासनासहकृतत्वेन संसारवर्तिमुमूर्षदेह्यन्त्यक्षणात् खसन्तानप्रसव एव न सन्तानान्तरोत्पाद इति चेन, ज्ञानव्यतिरेकेन कर्मवासनाया अपि अनभ्युपगमात्, तथा च तस्यास्तदात्मकतया सन्तानान्तरानुत्पादेनियामकखात् व्यतिरेकाभ्युपगमे वा ज्ञानाद्वैतसिद्धान्तव्याघातात्, अपि च विवक्षितोऽन्त्यक्षणः सन्तानान्तरं किं कर्मसंस्कारविरहिततया खसजातीयमारभते तद्विजातीयं वा, नायः, निष्कर्मणः क्षणात् तज्जातीयस्यैव सन्तानान्तरस्योत्पादासंभवात् , संभवे वापूर्व-8 निष्कर्मसन्तानप्रसवप्रसङ्गात् , न चेदमिष्टं, न द्वितीयः, निष्कर्मणोऽन्त्यक्षणात् कर्मसहकृतविजातीयसन्तानान्तरस्योत्पादानुपपत्तेः कारणानुरूपखात् कार्यस्य, अन्यथा सर्वसात्सर्वोत्पत्तिप्रसङ्गात् , एवं चान्त्यक्षणस्योपादानतया नारम्भसंभवः, नापि सह कारितया 2 | किंचिदनुपाददानस्य सहकारिखानङ्गीकारात्, उपादानखसहकारित्वलक्षणोभयरूपविकलस्य चावस्तुखापातात् ,अथ न किंचिदारभते | इति पक्षः, तर्हि तखार्थक्रियासामर्थ्य विरहात् असत्चप्रसङ्गः, नहि नैयायिकैरिव सत्तासमवायः सत्त्वमित्यभ्युपेयते भवता येनाथेक्रियाऽभावेऽपि सत्तासम्बन्धादन्त्यक्षणस्य सत्त्वं स्वात् , तथा च तदसत्वे तत्पूर्वपूर्वतरक्षणानामपि असत्त्वापत्तिः, अर्थक्रिया
AC-NCAKCON9--
For Private and Personal Use Only