________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsuri Gyarmandie
पंचलिंगी
बृहद्वृत्तिः
॥१७९॥
-%
परानपेक्षं प्रकाशत्वात् , यदेवं तदेवं यथा भास्वत्प्रकाशः तथाचेदं तस्मात्तथेति, नच ज्ञानस्य स्फुटाभत्वं प्रकाशत्वं भास्वत्प्रकाशस्य तु प्रकाशशब्दवाच्यत्वं तत् , तथा च पक्षदृष्टान्तयोः प्रकाशत्वस्याथभेदात् शब्दसाम्यमात्रेण न हेतुत्वमिति शङ्कनीयं, स्फुटप्रतिभासत्वरूपस्य तदर्थस्योभयत्रापि समानत्वेनार्थस्याप्यभेदात्, एवं च यथा भावत्प्रकाशः प्रकाशान्तरानपेक्ष एव प्रमातृवाने प्रतिभासते तथा ज्ञानमपि ज्ञानान्तरानपेक्षमेव खतः प्रकाशते, नच यथा भास्वत्प्रकाशः सजातीयानपेक्षोऽपि स्वसंवेदने प्रमातृज्ञानमपेक्षते तथा ज्ञानमपि स्वसंवेदने ज्ञानान्तरमपेक्षिष्यते इति वाच्यं, प्रकाशविज्ञानयोर्जडत्वाजडत्वाभ्यां ज्ञानापेक्षानपेक्षयोरुपपत्तेः, एकस्यैकदा करणकर्मभावो विरुध्यते इति चेन्न, ईश्वरज्ञानस्य भवतापि तथा भावोपगमात् , अन्यथा ज्ञानान्तराभावेन तस्य ज्ञेयत्वापत्तेः, अथ तस्य नित्यैकरूपत्वेन कथंचित्तथाभावोऽस्तु, नतु असदादिज्ञानस्य तद्विपर्यायादितिचेन्न, एवं तर्हि सर्वज्ञज्ञानस्य भवदाशयेनानित्यस्यापि तथा भावोपलम्भेनाविरोधस्य सुवचत्वात् , तथाहि सर्वज्ञज्ञानं सकलभुवनवर्तिपदार्थपरिच्छेदक्षणे किं खं गृह्णाति नवा ? नचेत् तर्हि सर्वज्ञताहानिः स्वज्ञानस्यैवाग्रहणात् , गृह्णाति चेत्तर्हि बलात्स्वसंवेदनत्वसिद्धिः, तथा च तदृष्टान्तेनासदादिज्ञानस्यापि तत्सिद्धिर्दुर्वारा, ये तु ज्ञानान्तरग्राह्यतां ज्ञानस्य संगिरन्ते, तेषां ज्ञानान्तरमपि ज्ञानान्तरेण ग्राह्यं तदपि अन्येनेत्यनवस्थया विषयान्तरसंचाराभावप्रसङ्गः, अथ तद्भिया त्रिचतुर्ज्ञानेभ्यः परस्तात् किमपि ज्ञानं ज्ञानान्तराग्राह्यमेव स्वीक्रियते, तर्हि आद्यमेव ज्ञानं तथेष्यतां किमुत्तरोत्तरज्ञानान्तरानुसरणप्रयासेन तदेवमस्मदादिज्ञानस्यापि खसंवेदनत्वं किं पुनर्मुक्तौ नित्यस्य तस्येति व्यवस्थितं, नित्यसुखस्य तु संसारसुखस्येव आत्मानुभाव्यरूपतयैव प्रादुर्भावान तदनुभवेऽपि ज्ञानान्तरापेक्षेति, एवं च न ज्ञानादिविशेषगुणोच्छेदो मोक्षः, किं नाम नित्यज्ञानसुखात्मकजीवस्ख-४
AGARMACAROCHOCOCOCK
॥१७९॥
For Private and Personal Use Only