________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
र्थत्वं प्रतीतिसिद्धमेव भवदभ्युपेतमुक्तिभुवस्तु दुःखहानेन वर्तमानक्षणे संवेदनं नापि कदापि स्मृतिः, आत्मनस्तदानों ज्ञाना-- दिविरहात् , एवं चायाः सर्वथाऽननुभूयमानतया कथमपि पुरुषार्थखं न युज्यते, ननु यथा नित्यसुखस्वभावा मुक्तिस्तथा नित्यदुःखखभावापि स्यात् वैषयिकसुखस्य दुःखाविनाभावोपलम्भेन मुक्तिभवस्यापि तस्य तथानुमानादितिचेन्न, मुमुक्षुप्रवृत्त्यन्यथानुपपत्त्यैव तस्या दुःखस्वभावत्वानुपपत्तेः, नहि बालिशा अपि दुःखावाप्तये सुखहानये वा प्रयतन्ते किं पुनः प्रेक्षावन्तः, तमादुःखलेशेनापि अननुषक्ता परमानन्दरूपैव मुक्तिः, यदपि न च नित्यसुखरागेणेत्यादि तत्रापि खाराज्यसार्वभोमत्वादिनिव-| न्धनधर्मस्यैव वैषयिकसुखरागस्यैव प्रवर्तकतया बन्धनसमानातत्वात् , निःश्रेयससुखरागस्य तु परमयोगिविधीयमानधर्मस्येव निवर्तकतया कैवल्यहेतुत्वात् , अन्यथा यथा नित्यसुखरागात् प्रवर्त्तमानस्य न सुखमयी मुक्तिस्तथा भवत्पक्षेपि संसारदुःखद्वेषात् प्रवर्त्तमानस्य न दुःखहानिमयी सा स्यात् रागवद् द्वेषस्यापि बन्धनत्वात् , अथ नासौ द्वेषः किन्तु दुःखजिहासामात्रमेव तत् सहि परासहिष्णुतालक्षणः प्रहलनात्मकश्च भवति, नचात्र तथा तस्मात् न बन्धनं, तर्हि नित्यसुखेऽपि न रागः सुखोपादित्सामात्रत्वात् सहि सविलासचेष्टात्मकः कामिनीरिरंसालक्षणश्च जायते नच प्रकृते तथा तसात्सोऽपि न बन्धनमिति, दोषः परिहारश्चात्र समौ स्याताम् , एवमनभ्युपगमे तु परदुःखप्रहाणेच्छालक्षणात् कारुण्याद् देशनादिना परोपकृतये प्रयतमानो जीवन्मुक्तोऽपि परेषु रागात् न निवृणुयात् , यद्वा समाधिभाजां महामुनीनां मोक्षे संसारे च निरभिलापत्वेनैव प्रवृत्त्या मुक्तिसिद्धेः कृतं सुखोपादित्सामात्रेणापि रागेण "मोक्षे भवे च सर्वत्र निःस्पृहो मुनिसत्तम"इतिवचनात् , यदपि किं नित्यं ज्ञानं सुखं च वेद्येते नवेत्यादि, तदपि न सुन्दरं, ज्ञानस्य तावत्वप्रकाशत्वेन खवेदने ज्ञानान्तरानपेक्षणात् तथाच प्रयोगः-ज्ञानं खप्रकाशे सजातीय
RRRRRRAA
For Private and Personal Use Only