________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
७३
२ श्रध्याये २ वाह्निकम् ।
धण्टास्यमन्यगतं वाऽवस्थितं सन्तान निवृत्तिरभिव्यक्तिकारणं वाच्यम् येन श्रुतिसन्तानो भवतीति शब्दभेदश्वासविश्वतिभेद उपपादयितव्य इवि । नित्ये तु शब्दे घण्टास्यं सन्तानवृत्तिसंयोगसहकारिनिमित्तान्तरं संस्कारभूतं पटुमन्दमिति वर्त्तते तस्यानुवृत्त्या शब्दसन्तानानुवृत्तिः । पथुमन्दभावाञ्च तीव्र मन्दता शब्दस्य, तत्कृतश्च वनिभेद इति न वै निर्निमित्तान्तरं संस्कार उपलभ्यते अनुपलोर्नास्तीति ॥
पाणिनिमित्तप्रश्लेषाच्छब्दाभावे नानुपलब्धिः॥३७॥
पाणिकर्म्मणा पाणिघण्टामशेषो भवति तस्मिंश्च सति शब्दसन्तानो नोपलभ्यते यतः श्रवणानुपपत्तिः । तत्र प्रतिघातिद्रव्य संयोगः शब्दस्य निमित्तान्तरं संस्कारभूतं निरुणङ्घीत्यनुमोयते । तस्य च निरोधा छन्द। सन्तानो नोत्पद्यते अनुत्पत्तौ श्रुतिविच्छेदः । यथा प्रतिघातिद्रव्यसंयोगादिषोः क्रियातौ संस्कारे निरुद्धे गमनाभाव इति कम्पसन्तानस्य स्पर्शनेन्द्रियग्राह्यस्य चोपरमः कांस्यपात्त्रादिषु पाणिसंश्ले षो लिङ्ग संस्कारसन्तानस्येति, तस्मानिमित्तान्तरस्य संस्कारभूतस्य नानुपलब्धिरिति ॥
विनाशकारणानुपलब्ध श्वावस्थाने तन्नित्यत्वप्रसङ्गः ॥ ३८ ॥
यदि यस्य विनाशकारणं नोपलभ्यते तदवतिष्ठते अवस्थानाञ्च तस्य नित्यत्व' प्रसज्यते । एवं यानि खल्विमानि शब्दश्रवणानि शब्दाभिव्यक्रय इति मतं न तेषां विनाशकारणं भवतोपपाद्यते अनुपपादनादनवस्थानमनवस्थानात् तेषां नित्यत्वं प्रसज्यत इति । अथ नैवन्तर्हि विनाशकारणानुपलब्ध ेः शब्दस्यावस्थानान्नित्यत्वमिति । कम्पसमानाश्रयस्य च नादस्य पाणिप्रश्लेोषात् कम्पवत् कारणोपरमादभावः वैयधिकरण्ये हि प्रतिघातिद्रव्यप्रश्लेषात् समानाधिकरणस्यैवोपरमः स्यादिति ॥
अस्पर्शत्वादप्रतिषेधः ॥ ३८ ॥
For Private And Personal
-