________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
२ अध्याये २ आह्निकम् । वाक्यविभागस्य चार्थग्रहणात् ॥ ६ ॥
प्रमाणं शब्दो यथा लोके विभागच ब्राह्मणवाक्यानां विविधः ॥ विध्यर्थवादानुवादवचनविनियोगात् ॥ ६१ ॥
विधा खलु ब्राह्मणवाक्यानि विनियुक्तानि विधिवचनानि अर्थवादवचनान्यनुवादवचनानीति तल ॥
विधिविधायकः ॥ ६२॥
यहाक्यं विधायकं चोदकं स विधिः । विधिस्त नियोगोऽनुज्ञा वा यथाग्निहोलं जुहुयात् स्वर्गकाम इत्यादि ॥ स्तुतिनिन्दा परकृति: पुराकल्प इत्यर्थवादः ॥६॥
विधेः फलवादलक्षणा या प्रशंसा सा स्तुतिः सम्प्रत्ययार्थ स्तूयमानं श्रद्दधीतेति प्रवर्तिका च फलश्रवणात् प्रवर्तते । सर्वजिता वै देवाः सर्वमजयन् सर्वखात्यै सबै स्थ.जित्यै सर्वमेवैतेनासोति सबै जयतीत्येवमादिः । अनिष्टफलवादो निन्दा वजनार्थ निन्दितं न समाचरेदिति । म एष वा प्रथमो यज्ञो यज्ञानां यज्क्योतिष्टोमो य एतेनानिष्ट्वाऽन्ये न यजते गर्ने पतत्ययमेवैतज्जीर्यते वा इत्येवमादि। अन्यकर्ट करय व्याहतस्य विधेर्वादः परकृतिः । हुत्वावपामेवाऽभिधारयन्ति अथ पृषदाज्य बदुह चरकाध्वर्यवः पृषदाज्य मेवाऽभिधारयन्ति । अग्ने : प्राणाः पृषदाज्यं स्तोममित्येवमभिदधती त्येवमादि । ऐतिह्यसमाचरितो विधिः पुराकल्प इति । तम्माहा एतेन ब्राह्मणा हविः पवमानं मामस्तोमतोषन् योने यज्ञ प्रतनवामह इत्येवमादिः । कथं परतिपुराकल्पो अर्थवादाविति । स्तुतिनिन्दावाक्येनाभिसम्बन्धाद्दिध्यात्रयस्य कस्य कस्यचिदर्थस्य द्योतनादर्थवाद दति॥
विधिविहितस्यानुवचनमनुवादः ॥ ६४ ॥
For Private And Personal