________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
२ अध्याये २ आङ्गिकम् ।
नभिव्यक्तिः, यावत् प्राप्तम्भवति तावत्यभिव्यक्तिरिति चेत् तावतोऽधिकरणत्वमणुसमवस्थानस्य यावति प्राप्ने जातिविशेषो ग्टह्यते तावदस्याधिकरणमिति प्राप्तम्भवति, तकसमुदाये प्रतीयमानेऽर्थभेदः । एवञ्च सति योग्यमणुसमुदायो वृक्ष इति प्रतीयते तत्व वृक्षवडत्वं प्रतीयेत । यत्र यत्र ह्यणुसमुदायस्य भागे वृक्षत्वं ग्टह्यते स स वृक्ष इति । तस्मात् समुदिताणुसमवस्थानस्यार्थान्तरस्य जातिविशेषस्याभिव्यक्तिविषयत्वादवयव्य र्थान्तरभ त इति । परीक्षितं प्रत्यक्षम् । अनुमानमिदानी परीच्यते ।
रोधोपघातसादृश्येभ्यो व्यभिचारादनुमानमप्रमाणम् ॥ ३५॥
अप्रमाण मिति । एकदाप्यर्थस्य न प्रतिपादकमिति । रोधादपि नदी पूर्ण ग्ट ह्यते तदा चोपरिटाइटो देव इति मिथ्यानुमानम् । नीडोपधातादपि पिपीलिकाण्डसञ्चारो भवति तदा च भविष्यति दृष्टिरिति मिथ्या नुमान मिति । पुरुषोऽपि मयूरवासि तमनुकरोति तदापि शब्दसादृश्यान्मिथ्यानुमानम्भवति॥
नैकदेशवाससादृश्येभ्योऽर्थान्तरभावात् ॥३६॥ नायमनुमान व्यभिचारः अननुमाने तु खल्वयमनुमानाभिमानः, कथं, माविशिष्टो लिङ्ग भवितुमर्हति । पूर्वेदिकविशिष्ट खलु वर्षीदकं शीघ्रतरत्व स्त्रोतसो बहुतरफेणफलपर्णकाष्ठादिबडलञ्चोपलभमानः पूर्णत्वे न नद्या उपरि दृष्टा देव इत्यनुमिनोति नोदक उनिमात्रेण । पिपीलिकाप्रायस्याण्ड सञ्चारे भविष्यति यष्टिरित्यनुमीयते न कासाञ्चिदिति । नेदं मयूरवासितं तत्मदृशोऽयं शब्द इति विशेषापरिक्षानान्निथ्यानुमानमिति यस्तु सदृशात् विशिष्टाच्छब्दाविशिष्टं मयूरवासितं ग्टह्णाति तस्य विशिष्टोऽर्थी ग्टह्यमाणो लिङ्ग यथा सर्पोदीनामिति, सोऽयमनुमातुरपराधो नानुमानस्य योऽर्थ विशेषेणानुमेयमर्थमविष्टार्थदर्शनेन बुभुतहत इति । त्रिकालविषयमनुमानं काल्यग्रहणादित्यलमत्र च ॥
For Private And Personal