________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
न्यायदर्शनवात्यायनभाष्ये
सर्वाग्रहणमवयव्यसिद्धेः ॥ ३२ ॥
यद्यवयवी नास्ति सर्वस्य ग्रहणं नोपपद्यते किं तत्मवम् द्रव्यगुणकर्मसामान्य विशेषसमवायाः । कथं कृत्वा परमाणसमवस्थानं तावद्दर्शनविषयो भवतीत्यन्द्रियत्वादर. नां द्रव्यानरचावयविभूतं दर्शनविषयस्थाशे मे द्रव्यादयो ग्टह्यन्ते तेन निरधिष्ठाना न ग्टोरन्, ग्टह्यन्न त कुम्मोऽयं श्याम एको महान् संयुक्तः स्पन्दते अस्ति मृण्मयश्चेति, सन्ति चेमे गुणादयो धमी इति तेन सर्वस्य ग्रहणात् पश्यामोऽस्ति द्रव्यान्तरभूतोऽवयवोति ।
धारणाकर्षणोपपत्तेश्च ॥ ३३ ॥ अवयव्यर्थान्तरभूत इति संग्रहकारिते वै धारणाकर्षणे संग्रहो माम संयोगसहचरितं गुणान्तरम् । स्नेहव्यत्वकारितमपां संयोगादामे कुम्भ अग्निसङ्गात् पक यदि त्ववयविकारिते अविष्यताम् पांशुराशिप्रभृतिबप्यज्ञास्येतां द्रव्यान्तरानुत्पत्तौ च टणोपकलाधादिषु जन्तु संग्टहीतेष्वपि नाभविष्यतामिति । अथावयविनं प्रत्याचक्षाणको माभूत् प्रत्यक्षलोप इ त्यसञ्चयं दर्शनविषयं प्रतिजानानः किमनुयोक्तव्य इति। एकमिदं द्रव्यमित्यै कबुड्वे विषयं पर्यनयोज्य: किमेकबुद्धिरभिवार्थविषया, आहो नानार्थविषयेति । अभिन्नार्थ विषयेति चेत् अर्थान्तरानुज्ञानादवर्यावसिद्धिः, नानार्थ विषयेति चेत् भिन्नष्वे कदर्शनानुपपत्तिः। अनेक स्मिन्नेक इति ब्याहताबुद्धिर्न दृश्यत इति । सेनावनवद्ग्रहणमिति चेन्नातीन्द्रियत्वादणूनाम्
__ यथा सेनाङ्गेघु वनाङ्गेषु च दूरादग्टह्यमाणटथक्वेष्वे कमिटमित्यु पपद्यते बुद्धिः, एवं परमाणुष सञ्चितेष्पग्टह्यमाणटयत्वे ध्वे कमिदमित्यु पपद्यते बुद्धिरिति, यथाऽग्टह्यमाण पृथक्वानां खलु सेनावनाङ्गानाकारात् कारणान्सरतः पृथकस्याग्रहणम्, अथाऽम्ट ह्यमाणजातोनां पलाश इति
For Private And Personal