________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
१ अध्याये १ किम् ।
I
मंहारः स्यात् कस्य चा पदेशात् प्रतिज्ञायाः पुनर्वचनं निगमनं स्यादिति, असत्युदाहरणे केन साधये वैधस्य वा साध्यसाधनमुपादीयेत कस्य वा साधर्म्यवशादुपसंहारः प्रवर्त्तेत, उपनयनञ्चान्तरेण साध्ये ऽनुपसंहृतः माधको धर्मे नार्थं साधयेत्, निगमनाभावे वानभिव्यक्तसम्बन्धानां प्रतिज्ञादीनामेकार्थेन प्रवर्त्तन' तथेति प्रतिपादनं कस्येति । यथावयवार्थः साध्यस्य धर्मस्य धर्मिणा सम्बन्धोपादानं प्रतिज्ञार्थः । उदाहरणेन समानस्य विपरीतस्य वा धर्मस्य साधकभाववचनं हेत्वर्थः, धर्मयोः साध्यसाधनभावप्रदर्शनमेकत्वोदाहरणार्थ: । साधनभूतस्य धर्मस्य साध्येन धमें सामानाधिकरण्योपपादनमुपनयार्थः । उदाहरणस्थयो- धर्मयोः साध्यसाधनभावोपपत्तौ साध्ये विपरीतप्रसङ्गप्रतिषेधार्थ निगमनम् । न चैतस्यां हेतुदाहरणपरिशुद्धी सत्यां साधये वैधर्म्याभ्यां प्रत्यवस्थानस्य विकल्पाज्जातिनिग्रहस्यानबहुत्वं प्रक्रमते, व्यव्यवस्थाप्य खल साध्यसा - धनभावमुदाहरणे जातिवादी प्रत्यवतिष्ठते व्यवस्थिते तु खलु धर्मयोः साध्यसाधनभावे दृष्टान्तस्य ग्टह्यमाणे साधनभूतस्य धर्मस्य हेतुत्वेनोपमानं न साधर्म्य मात्रस्य न वैधर्म्यमात्रस्य वेति । श्रत ऊर्द्ध ती लच्चणीय इति अथेदमुच्यते ॥
ܟ
२३
अविज्ञाततत्त्वेऽर्थे कारणोपपत्तितस्तत्त्वज्ञानार्थमूहस्तर्कः ॥ ४० ॥
For Private And Personal
विज्ञायमानतत्वेऽर्थे जिज्ञासा तावज्जायते जानीयेममर्थमिति, व्यथ जिज्ञासितस्य वस्तुनो व्याहतो धर्मेो विभागेन विमृशति किंखिदित्यमाहोखिनेत्यमिति विम्श्यमानयोर्धर्मयोरेकं कारणोपपत्त्याऽतुजानाति सम्भवत्यस्मिन् कारणं प्रमाणं हेतुरिति, कारणोपपत्त्या स्यादेवमेतन्नेतरदिति तत्त्र निदर्शनम् योऽयं ज्ञाता ज्ञातव्यमर्थं जानीते तञ्च भोजानीयेति जिज्ञासा, स किमुत्पत्ति में कोऽनुत्पत्तिधर्मक इति विमर्शः, विस्तृश्यमानेऽविज्ञाततत्त्वेऽर्थे यस्य धर्मस्याभ्यनुज्ञाकारणमुपपद्यते तमनुजानाति यद्ययमनुत्पत्तिधर्मकस्ततः स्वकृतस्य कर्मणः फल