________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
४ अध्याये २ प्राज्ञिकम्।
तटस्थः शकते । एवं प्रसङ्गः अर्थविशेष प्राबल्या विषयावभासप्रसङ्गः॥४३॥ .
समाधत्ते । निष्ण वस्य शरीरादेः अवश्यम्भावित्वात् कारणत्वात् ज्ञानादिध्विति शेषः ॥ ४४॥
ननु किमेतावतेत्यत आह । तस्य शरीरादेरभावः तदारम्भकधर्माधर्मविरहादिति भावः ॥ ४५ ॥
ननु समाधिमात्रादेव निष्प्रय होऽपवर्गः स्थात् साधनान्तर वा पेक्षणीयमत बाह यहा समाधिसाधनान्याह | तदर्यमपवर्गार्थ मिति भाष्यादौ तदर्थ समाध्यर्थ मिति वा यमानाह योगसूत्रं अहिंसामन्यास्ते यब्रह्मचर्यापरियाहा यमाः नियमानाह शौचसन्तोषतपःखाध्याये श्वरप्रणिधानानि नियमाः स्वाध्यायः स्वाभिमतम मच जपः निषिड्वानाचरणतत्तदाश्रमविहिताच. रणे यमनियमा इत्यन्ये अात्मसंस्कारः आत्मनोऽपवर्गाधिगमक्षमता ननु यमनियम वेव साधने उताहो अन्यदस्तीत्यत आह योगादिति आत्मविधिः अात्मसाक्षात्कारविधायकवाक्यं आत्मा वा अरै ट्रष्टव्य प्रात्मान' चेहिजानीयादित्यादि योगादिति प्रतिपाद्यत्वं पञ्चम्यर्थः तथाच योगशास्त्रोकात्म तत्वाधिगमसाधनैश्चात्मसंस्कारः कर्तव्य इत्यर्थः तथाच योगसूत्रं थोगसूल योगाङ्गानुपानादशक्षिये ज्ञानदीप्तिराविवेकख्यातेः तदर्थश्च यो. गाङ्गानां यमनियमादीनां अनुहानाचित्तस्याशु रविद्यादिरूपस्य क्षये सति ज्ञानस्य दीप्तिः प्रकर्षः स च विवेकख्यातिपर्यन्तो जायते सा च सत्त्वपुरुषान्यतासाक्षात्कारः अस्मन्मते तु देहादिभिवात्मसाक्ष त्कारः स च नेदानीमविद्याप्रतिबन्धाइहात्मनोर्मनश्चक्षुराद्ययोग्यत्वाच्च भवति चासो योगजधर्यात योगाङ्गानि तत्रोक्तानि यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमायोऽटावङ्गानि आसनं पद्मासनादि कुशासनादि च चैलाजिनकुशोत्तरमिति भगवचनात् प्राणायाममाह योगसूत्र तस्मिन् सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः तस्मिन् आसनस्थैर्ये प्रारणवायोरेव निर्गमप्रवेशरूपक्रियाविशेषात् श्वासप्रश्वासव्य पदेशः वहिरिन्द्रियाणां स्वस्वविषयव मुख्येनावस्थान प्रत्याहारः धारणामाह योगसूत्न देशबन्धचित्तस्य धारणा देशे नाभिचक्रादौ चित्तस्य बन्धविषयान्तरवैमुख्ये नावस्थानं ध्यानमाह तत्र प्रत्ययकतानताध्यानं धारणैव धारावा
२५
For Private And Personal