________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
२६४
न्यायसूरती ।
न शरीरव्यापकं हृदयाद्यवच्छदेन तदानुभविकत्वादिति भावः ॥ ५४ ॥ देशयति । शरीररूपादेराश्रयव्यापकत्वं न शारीरस्य गौररूपस्पर्शादेः केशनखादावनुपलब्धेरित्यर्थः ॥ ५५ ॥
दूषयति । स्पष्टं अन्ये तु चेतना न शरीरगुणः शरीरव्यापित्वात् शरीरे तदवयवेषु सर्वेष्वेकेन सम्बन्धेन रूपत्वात् शरीरगुणस्तु न स्वावयवत्तिः शङ्कते न केशेति चैतन्यस्यानुपलब्ध ेः समाधत्ते त्वगितीत्याञ्जः ॥ ५६ ॥
:
हेत्वन्तरमाह । बुद्धिर्न शरीरगुणः शरीरगुणवैधर्म्यात् वहिरिन्द्रियावेद्यत्वे सति वेद्यत्वात् ॥ ५७ ॥
याचिपति । नोक्तं युक्तं रूपादीनां परस्परवैधर्म्यात् तथाच तीत्या स्पर्धादीनां शरीरगुणत्वं न स्यादवाच्क्षुषत्वात्तथाचोक्तमप्रयोजकमिति भ. वः ॥ ५८ ॥
समाधत्ते । रूपादीनां न शरीरगुणत्वप्रतिषेधः कुतः ऐन्द्रियकत्वात् तत्तदिन्द्रिया पाह्यत्वलचणतत्तगुण वैधर्म्येऽपि शरीरगुणत्वावच्छिन्नवैधय॑स्य वहिरिन्द्रियाप्राह्यत्वे सति याह्यत्वस्याभावत् बुज्जौ च तत्सत्वादिति भावः ॥ ५८ ॥ समाप्त' बुद्ध शरीर- गणभेद प्रकरणम् ॥ ३७ ॥
अथ क्रमप्राप्ता मनःपरीक्षा तत्र प्रतिशरीरमेकं मनश्चक्षुरादिसहकारि तथा मनःपञ्चकं वेति संशये मनः पञ्चकमेवोचितं तेन च प्रत्येकं सकलमनःसम्बन्बाह्यासङ्गयौगपद्ये उपपद्येते इति पूर्व्वपत्ते सिद्धान्तत्रम् | प्रतिशरीरं मनो नानात्वे व्यासङ्गस्यलेsपि यौगपद्यं स्यादतो न मनो नानात्वमिति भावः ॥ ६० ॥
दीर्घशष्कुलीभचणादौ ज्ञानयोगपद्यान्नानात्वं खादित्याशङ्कते । म एकं मनः अनेक क्रियाणां अनेकज्ञानान मुपलब्धेरित्यर्थः ॥ ६१ ॥ समाधत्ते । क्रमिकेऽपि तदुपलब्धियोगपद्येोपलब्धिराशुसञ्चारात् शोषसञ्चारात्मकदोषात् यथा अलातचक्रे वेगातिशयेन स्वाम्यम. ये क्रिय:सन्तानस्य भेदेनानुपलब्धिरिति ॥ ६२ ॥
ननु यौगपद्येोपपादकतया मनसो वैभवं स्यादत्वाह । मन इति
1
*
For Private And Personal