SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir ५ अध्याये १ प्राज्ञिकम् । साधर्म्यात्तुल्यधर्मोपपत्तेः सर्वा नित्यत्वप्रसङ्गादनित्यसमः॥३२॥ अनित्येन घटेन साधादनित्यः शब्द इति ब्रवतोऽस्ति घनानियेन सर्वभावानां साधर्म्य मिति सर्वस्यानित्यत्व मनिष्ट सम्पद्यते, सोऽयममित्य त्वेन प्रत्यवस्थानादनित्यसम इति । अस्योत्तरम् । साधादसिद्धेः प्रतिषेधासिद्धिः प्रतिषेध्यसाधाच्च ॥३३॥ प्रतिज्ञाद्यवयवयुक्त वाक्यं पक्षनिवर्तकं प्रतिपक्षलक्षणं प्रतिषेधस्तस्य पक्षेण प्रतिष ध्ये न साधम्यं प्रतिज्ञादियोगः तद्यद्यनित्यसाधादनित्यत्व - स्यासिद्धिः साधादसिद्धेः प्रतिषेधस्याप्यसिद्धिः प्रतिघेयेन माधर्म्यादिति ॥ दृष्टान्ते च साध्यसाधनभावेन प्रजातस्य धर्मस्य हेतुत्वात्तस्य चोभयथाभावान्नाविशेषः ॥३४॥ दृष्टान्ने यः खलु धर्मः साध्यसाधनभावेन प्रजायते स हेतुत्वेनाभिधीयते स चोभयथा भवति, केनचित् समानः कुतश्चिद्दिशिष्टः, सामान्यात् साधर्म्यम् विशेषाञ्च वैधय॑म् एवं साधर्म्यविशेषो हेतः नाविशेषेण साधर्म्यमानं वैधय॑मानं वा, साधर्म्यमात्र वैधय॑मानं चाश्रित्य भवानाह । साधर्म्यात्त ल्यधर्मोपपत्तः सर्वानित्यत्वप्रसङ्गादनित्यसम इति एतदयुकमिति अविशेषसमप्रतिषेधे च यदुन्न तदपि वेदितव्यम् ॥ - Momen नित्यमनित्यभावादनित्ये नित्यत्वोपपत्त नित्यसमः॥३५॥ For Private And Personal
SR No.020513
Book TitleNyaya Darshan
Original Sutra AuthorN/A
AuthorJivanand V Bhattacharya
PublisherJivanand V Bhattacharya
Publication Year1874
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy