________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
४ अध्याये २ आह्निकम् ।
मत्यन्तमनुत्पत्तिरिति । अनादिश्च क्लेशसन्ततिरित्यय कम् । सर्वे इमे खल्वाध्यात्मिका भावा अनादिना प्रबन्धेन प्रवर्तन्ते शरीरादयः, न जात्वत्व कश्चिदनुत्पन्नपूर्वः प्रथमत उत्पद्यते अन्यत्र तत्त्वज्ञानात्, नचैवं सत्यनुत्पत्तिधर्मकं किञ्चिद्ययधर्मकं प्रतिज्ञायत इति । कर्म च सत्त्वनिका. यनिवर्तकम् तत्त्वज्ञानकृतात् मिथ्यासङ्कल्पविघातान्न रागाद्युत्पत्तिनिमित्तं भवति सुखदुःखसम्बित्तिफलन्त भवतीति |
इति वात्मायनीये न्यायभाष्ये चतुर्थाध्यायखाद्यमाह्निकम् ॥
किन्तु खल भी यावन्तो विषयास्तावत्स प्रत्येकं ज्ञानमुत्पद्यते । अथ कचिटुमद्यत इति कश्चात्र विशेषः, नतावदेकैकत्र यावद्विषयसुत्पद्यते जेयानामानन्त्यात्, नापि कचिदुत्पद्यते, यत्र नोत्पद्यते तत्रानिवृत्तो मोह इति मोहशेषप्रसङ्गः । न चान्यविषयेण तत्त्वज्ञानेनान्यविषयोमोहः शक्यः प्रतिषेड मिति । मिथ्याज्ञानं वै खलु मोहो न तत्त्वज्ञानस्यानुत्पत्तिमावं, तच्च मिथ्याज्ञानं यत्र विषये प्रवर्तमान संसारवीजं भवति स विषयस्तत्त्वतो ज्ञेय इति, किं पुनस्त नियाज्ञानम् अनात्मन्यात्म महः,अहममोति मोहोऽहङ्कार इति । अनात्माहं खल्व हमम्मीति पश्यतो दृष्टि रहङ्कार इति, किं पुनस्तदर्थजातं यद्दिषयोऽहङ्कारः शरोरेन्द्रियमनोवेदनाबद्धयः, कथं तहिषयोऽहङ्कारः संसारवीजं भवति । अयं खल घरीराद्यर्थजातमहमस्मीति व्यवसितस्तदुच्छ देनेनात्मोच्छदं मन्यमानोऽनुच्छेदहष्णापरिलतः पुनः पुनस्तदुपादत्ते तदुपाददानो जन्ममरणाय यतते तेनावियोगानात्यन्तं दुःखादिमुच्यते इति । यस्तु दुःखं दुःखायतनं दुःखानुषतं सुखञ्च सर्वमिदं दुःखमिति पश्यति, स दुःखं परिजानाति परिजातनञ्च दुःखं प्रहोणं भवत्यनुपादानात् स विषाबवत्, एवं दोषान् कर्म च दुःखहेतुरिति पश्यति, न वा प्रहोणेषु दोषेषु दुःखप्रबन्धोच्छेदेन शक्यम्भवितुमिति दोषान् जहाति, महीणेषु च दोषेषु न प्रवृत्तिः प्रतिसन्धानायेत्युक्तम्,
For Private And Personal