________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
३ अध्याये १ आह्निकम् ।
८५
याणीन्द्रियाणि तस्मात्तेभ्योऽन्यश्चेतनः सर्वज्ञः सर्व विषयग्राही विषयव्य वस्थितितोऽनुमीयते । वेदमभिज्ञानमध्याख्येयं चेतनवृत्तमुदाहियते रूपदर्शी खल्वयं रसं गन्धं वा पूर्वग्टहीतमनुमिनोति । गन्धप्रतिसंवेदी च रूपरसावनु मिनोति । एवं विषय घेऽपि वाच्यम् । रूपं दृष्ट्वा गन्ध जिप्रति प्रात्वा च गचं रूपं पश्यति । तदेवमनियत पर्यायं सर्व विषयपहण मेकचेतनाधिकरणमनन्यकर्ट के प्रतिसन्धत्ते प्रत्यक्षानुमानागमसंशय प्रत्ययांश्च नानाविषयान् खात्मकट कान् प्रतिसन्धाय वेदयते सार्थविषयञ्च शास्त्रं प्रतिपद्यते । अर्थमविषयभूतं श्रोत्रस्य क्रमभाविनो वर्णान श्रुत्वा पदवाक्यभाव प्रतिसन्धाय शब्दार्थ व्यवस्थाञ्च बुध्यमानोऽनेकविषयमर्थजातग्रहणीयमेकैकेनेन्द्रियेण ग्टह्णाति । सेयं सर्वस जेथा व्यवस्थाऽनुपदं न शक्या परिक्रमितम् | प्राकृतिमात्रन्त दाहृतम् । तत्र यदुत मिन्द्रियचैतन्ये सति किमन्ये न चेतनेन तदयुक्त भवति । दूत देहादिव्यतिरिक्त आत्मा न देहादिसङ्घातमात्रम् ॥
शरीरदाहे पातकाभावात् ॥ ४॥
शरीरयहणेन शरीरेन्द्रियबुद्धिवेदनासङ्घातः प्राणिभूतो ग्टह्यते माणिभूतं शरीरं दहतः प्राणिहिंसाकतं पापं पातक मित्युच्यते तस्याभावः तत्फलेन कर्तुरसम्बन्धात् अकर्तश्च सम्बन्धात् शरीरेन्द्रियबुद्धिबेदनाप्रबन्धे खल्व न्यः सङ्घात उत्पद्यतेऽन्यो निरुध्यते उत्पाद निरोधसन्नतीभूतः प्रबन्धो नान्यत्व' बाधते, देहादिसङ्घातस्थान्यत्वाधिधानत्वात् । अन्यत्वाधिष्ठानो ह्यमौ प्रख्यायत इति एवं सति यो देहादि सङ्घात: प्राणिभती हिंसां करोति नासौ हिंसाफलेन सम्बध्यते, यश्च सम्बध्यते न तेन हिंसा कता, तदेवं सत्त्वभेदे कृतहानमकताभ्यागमः प्रसज्यते सति तु सत्त्वोत्यादे सत्त्वनिरीधे चाकर्मनिमित्तः सत्त्वसर्गः प्राप्नोति । तत्र मुक्त्या ब्रह्मचर्य वासो न स्यात् । तद्यदि देहादिसङ्घातमात्र स्यात् शरीरदाहे पातकं न भवेत् अनिष्टञ्च तत् तमाहेहादिसङ्कालव्यतिरिक्त अात्मा नित्य इति ॥
For Private And Personal