SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org नीति कल्पतरुः । तद्देशेनोऽपि वृत्तान्तं सम्यग्जातुं प्रसेनजित् । ( यत इति गच्छतः तद्देश नस्तद्देशराजा । ) पृष्ट्वा श्रुत्वा च तद्वृत्तं किंचित्तत्रोपलक्षणम् ॥ ९ ॥ अस्तीति तमसौ राजा पप्रछ तीव्रधीः । तच्छुत्वासौ द्विजोऽवादीदस्ति क्षुद्रोऽत्र पादपः ॥ तत्तले निहितं द्रव्यं हृतं केनाप्यभून्मम ॥ १० ॥ मासूंस्त्यज धनं स्वं तेऽलब्धं दास्येऽथ कोशतः । गच्छ विप्रालयं मा ते व्यथास्त्विति निगद्य तम् ॥ ११ ॥ ( अथ चेन्नाहं लप्स्ये तदा स्वको गद्दास्ये इति । ) गृहमेत्य शिरः पीडा लक्ष्याद्वैद्यांश्च सोऽचिनोत् । प्रसंगेन च तान्राजा पप्रच्छात्र पुरे मम ॥ १२ ॥ कियन्तो रोगिणः कस्य किं दत्तं इति श्रुतु माम् । तन्मध्यादाह चैकोऽस्मै राजन्नागबला मया ॥ १३ ॥ वणिजो मातृदत्ताया स्वस्थायादेशितत्यलम् । अलमिति पर्याप्तमभूद्राजा तत्प्रश्नादुपरतोऽभूदित्यर्थः । Acharya Shri Kailassagarsuri Gyanmandir गतेषु तेषु वणिजमानीयासौ रहो द्रुतम् || १४ || श्रुतं तं नागवळया स्वस्थो भूः केन सा च ते । दत्तेति ब्रूहि भीतोऽसौ प्राह कर्मकरं निजम् ॥ १५ ॥ तमाहूयाह किं नागबला दत्ता त्वयेत्यसौ । दत्तेति स्वीकृतौ स्वर्णसहस्रं केति चाब्रवीत् ॥ १६ ॥ इत्युक्तो भूभृताद्भितः प्रतिपचैव तत्क्षणम् । सतानानीय दीनारांस्तत्र कर्मकरो जहौ ॥ १७ ॥ राजाप्युपोषितायास्मै द्विजायाहूय तान्ददौ । दीनारान्दारितप्राप्तान्प्राणानिव बहिश्वरान् ॥ १८ ॥ एवं स लब्धवान्बुद्धया नीतं मूलतलात्तरोः । द्विजार्थ भूपतिर्जानन्नोषधिं तां तदुद्भवान् ॥ १९ ॥ For Private and Personal Use Only ५७
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy