SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नौतिकल्पतः। [१९ ब] प्रभुश्च यो हितं द्वेष्टि सेवते चाहितं सदा । स वर्जनीयो विद्वद्भिधैर्दुष्टातुरो यथा ॥ २ ॥ अप्रियस्य प्रथमतः परिणामे हितस्य च । वक्ता श्रोता च यत्र स्यासत्र श्रीः कुरुते पदम् ॥ ३ ॥ न शृणोति सतां मन्त्रमसता च शृणोति यः । अचिरेण समं प्राप्य विपदं परितप्यते ॥ ४ ॥ दुष्टः करोतु स्वं दोषं मनीषी मा करोतु तम् । संगादसौ समायाति दुष्टसंगं त्यजेत तत् ॥ ५॥ तथा वेनस्य कस्यापि यूका शय्यान्तराश्रया । चिरं जिजीव जावेको दंशस्तत्राप वायुना ॥ ६॥ सा विलोक्यैव तं प्राह मास्स्व कालं क्षिपाम्यहम् । एका मन्दचरीमा मा निराशां कुरु तीक्ष्गहन् ॥ ७ ॥ तयैवं प्रार्थितोऽप्येष नम्रो भूत्वाथ तां यदा। ययाचे समयावृत्या तव जीवामि मा भयम् ॥ ८ ॥ स्वस्था तं साह भूयोऽपि किं स्वैष लघुसर्गवान् । सुप्तो रतिप्रसक्तो वा प्रदंश्योऽसौ जातु नान्यदा ॥९॥ इत्थं पणे कृते सुप्तं तमसौ यावदेव तु । ददंश तावदेवासौ दष्टोऽस्मीति बुबोध ह ॥ १० ॥ द्रुतं भृत्येषु सज्जेषु दंशेऽस्मिन्शीघ्रमुत्प्लते । यूका मन्दचरी लब्धा मारिताभूक्षणादसौ ॥ ११ ॥ तस्मात्स्वो रक्षणीयोऽलं दुष्टसंगान्मनीषिभिः । न जातु दुष्टसंगोऽसौ विनानयं प्रशाम्यति ॥ १२ ॥ इति दुष्टसंगतित्यागकथनं नाम कुसुमम् । - - -. . 1 Corrupt. For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy