SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतरुः। २१९ ... इदमुक्तमायुःप्रमाणं दीर्घाणां ललाटान्तगामिनीनां मध्यान्तयोरच्छिनानाम् । एतच्च ऋजुताया अप्युपलक्षणम् । व्यतिरेकेणैतत्स्फुटयति । वर्षा चेति । अत्रापि वक्रताच्छेदस्योपलक्षणम् । हास आयुषः । तत्रापि वामतो वक्रतायामाधिक्येन हासः हासयति चोपलक्षणम् अगम्यागमनस्य । तथा च वराहः 'विच्छिन्नाभिश्चागम्यगामिन' इति । समुद्रः-- 'रेखाः पञ्च[९०]ललाटस्थाः समाः कर्णान्तगोचराः । भणितं यस्य गम्भीरं तं विद्यात्सकलायुषम् ॥३६॥ इति । अथ शिरोलक्षणम् शिरसा मण्डलाभेन गवाढयश्छत्रतो नृपः । चिपिटाः पितृमातृघ्नाः करोट्याचिरमृत्यवः ॥ ३७॥ मण्डलाभं सूर्यचन्द्रबिम्बमिव वर्तुलम् । च्छत्र इति च्छत्रामेन तच्चोर्ध्वतो विस्तीर्णम् । करोटिः शिरोस्थितघटस्य प्रस्फुटमिव दृश्यत इत्यर्थः । घटमूर्धा मार्गरुचिर्द्विमूर्धा च धनोत्रितः। महत्त्वाय च निम्नं यदतिनिम्नं धनप्रदम् ॥ ३८ ॥ घटेति तथा च व्यत्ययेन समुद्रवचनम् ‘शिरो दीर्घ तु दुःखिनामिति'। अथ भ्रलक्षणम् स्थूलस्वं घनता वापि भ्रूवोर्यस्य विलोक्यते । अतीव कठिनं तस्य हृदयं विनिवेदयेत् ॥ ३९ ॥ कर्णनेत्रान्तरार्धेन भ्रूवोर्यस्यास्ति विस्तृतिः । सोऽहंकारेण नृपतीन्पातयेन्नात्र संशयः ॥ ४०॥ नेत्रादारभ्य कर्ण यावदन्तरम् अवकाशस्तदर्धमानेन । मध्योच्चभ्रूयुगोपेतो नरोऽल्पायुभवेद्धृवम् । विषमभ्रयुगेणापि निःस्वो इन्दुप्रभेण' च ॥ ११ ॥ मध्यनिम्नभ्रूवो येऽपि तेऽगम्या रमयन्त्यलम् । खण्डितभ्रयुगेणापि धनहीनो विजायते ॥ ४२ ॥ विशेषः पुनरेकोऽत्र भ्रूवोर्मध्ये यदीक्ष्यते । जीर्णाख्यं रोम तेनास्य राज्यलाभो भवेद्बुवम् ॥ १३ ॥ 1 Corrupt. For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy