________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
अस्तीदं कौशलं प्रायो महाविभवभूषणम् ।
मनसोन्मीलितं किञ्चिद्यद्यदत्र विशदायते ॥ ९॥ महाविभवेति । अचिन्त्यविभवानां भूपतीनां यत्र कौशले बद्धा स्था ते महाविभवभूषिता भवन्तीत्यर्थः । मनसोन्मीलितं मनः कल्पितं विशदायते तत्प्रत्यक्षी. भवति । इति भूपतिं प्रति सदोध्यक्ष्यमोदेना
उक्तं चात्र तरङ्गियण्या कश्चिदभ्येति वामनः। भूमीशं श्रीशकेन्द्राख्यमवेत्युक्त्या व्यजिज्ञपत् ॥ १० ॥ निशम्यालोक्य तं प्राह खर्वोपरि न कस्यचित् । जाल्महस्तसमायातो जाने व्यत्ययमत्र ते ॥ ११ ॥ निशम्यासौ हसित्वास्यबन्धं तं च समादधे ।
इयदाक्षेपतो मेऽद्य[८८ब]प्रतीकार्य त्वयास्त्यलम् ॥ १२ ॥ आस्यबन्धमिति मुखं बद्धा राजाभिमुखं हासानौचित्यात् । हासश्च राज्ञ आशयबोधनात्।
स मत्तोप्यतिऽखर्वोस्तीत्येवं श्रुत्वा विहस्य च ।
संविदे पालयामास तमसौ तत्तथाभवत् ॥ १३ ॥ पालयामास प्रतीक्षाञ्चके।
इत्याकारगतास्त्येव प्रायोऽन्तःप्रकृतिर्नृणाम् ।
विज्ञानशालिनां रिंखा' न यथा जायते कचिद् ॥ १४॥ यथेत्याकारमात्रेणैवान्तरप्रकृतिबोधात् ।
आहुश्च वैद्याः सुश्वेतवर्णो यः श्यावलोचनः ।
सुदुर्दुःखोङ्कःयश्चानुपरुद्धः' कुनखी भवेत् ॥ १५।। अन्तरान्तरारक्तः कृष्णोवर्णः श्यावः अङ्कधः स्वकलङ्कावहः । तत्रैव कुनखित्वाचाधिक्येऽनुपरुद्धो निरनुरोधो गुरूनप्यास्थानेऽपि लजयतीति । अत्रापि
[८९अ]कुशलाः कुनखा ज्ञेया कामभोगविवर्जिताः । वक्रान्तैः स्फुटितैः स्थूलैः नखैर्दारिद्यभोगिनः ॥ १६ ॥
1 Corrupt.
For Private and Personal Use Only