SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०० नीतिकल्पतरः। प्रशस्तेनेत्युक्तं तत्र च्छेदवेलायामकानुसारेण फलं गजचेष्टितेषूह्यम् । [८०अ]एकद्रुमेण धन्यं वृक्षद्वयनिर्मितं च धन्यतरम् । त्रिभिरात्मजवृद्धिकरं चतुर्भिरथ यशश्चाग्यम् ॥ १४ ॥ पञ्चवनस्पतिरचिते पश्चत्वं याति तत्र यः शेते । षष्ट्सप्ताष्टनवकाणां काष्ठेघटिते कुलविनाशः ॥ १५ ॥ इत्यासनलक्षणं कुसुमम् ॥ [१०२] अत्रैव प्रसङ्गात्वस्त्रासनगतः फलविशेषो लिख्यते । वस्त्रस्य कोणेषु वसन्ति देवा नराश्च पाशाम्तदशान्तमध्ये । शेषास्रयश्चात्र निशाचरांशास्तथैव शय्यासनपादुकासु ॥ १ ॥ लिसे मषीगोमयकर्दमाचैश्छिन्नैः प्रदग्धे स्फुटिते च विन्धात् । पुष्टं नवेऽल्पाल्पतरं च मुक्के पापं शुभं चाधिकमुत्तरीये ॥२॥ रुपाक्षसांशेष्वथवापि मृत्युः पुंजन्मतेजश्च मनुष्यभागे । भागेऽमराणामथ भोगवृद्धिः प्रान्तेषु सर्वत्र वदन्त्यनिष्टम् ॥३॥ कङ्कप्लवोलूककपोतकाकक्रव्यादगामायुखरोष्ट्रसपैंः । छेदाकृतिर्दैवतभागगापि पुंसां भयं मृत्युसमं करोति ॥ ४ ॥ इति वस्त्रासनलक्षणाभिधं कुसुमम् । [१०३] अथ शरलक्षणम् । शरत्काले ग्रहीतव्या वंशाः काञ्चीकीरात्तजाः । कुमारजन्मभूजा वा शरांस्तेषां प्रकल्पयेत् ॥ १॥ स्निग्धा निमग्नपर्णिः सारवन्तः समाहिताः। रजवो मधुवर्णाभाः सुजाता शरदाढाः ।। २ ।। स्नायुश्लिष्टा सुनेत्राश्च सुपुङ्खा कलनासमाः । तैक्ष्ण्यधौताश्च कर्तव्या रुक्मपुखविभूषिताः ।। ३ ।। For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy