________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
अथ बौद्धमतम् ।
सुगतो देवो विश्वं तत्त्वचतुष्कं क्षणक्षयीदमपि । वैनाशिकमतमेतद्भिन्नं सौत्रान्तिकादिभेदेन ॥ १०॥ पारोक्ष्यापारोक्ष्याबाह्यार्थे भिन्नतोभयोर्बाह्यम् । नास्तीत्याकारगतान्ययोस्त्वसौ यदन्यदविशिष्टम् ॥ ११ ॥ अर्थो ज्ञानान्वितो वैभाषिकेण बहु मन्यते । सौत्रान्तिकेन प्रतिभाग्राह्योऽर्थो न बहिर्गतः ॥ १२ ॥ इति दुःखमथाप्यायतनं समुदयमार्गो चतुष्कमर्थानाम् । दुःखं पश्चस्कन्धा आयतनं द्वादशद्रियादिनि ॥ १३ ॥ बाह्यान्तरताप्येषां क्षणिकत्वात्कल्पनासारा । निर्विषयाधीधारा गलिताखिलवासना मोक्षः ॥ १४ ॥ भावाक्षविणरमेद्धा' निरात्मका बहिरिवाभान्ति । कृत्तिकमंडलुचीरं मौंजी पूर्वाह्नभोजनं संगः । रक्कांशुक ते...,तीयं' चर्येषां वे प्रमाणे च ॥ १५ ॥ मृष्टं गृहं च भावानुसारिणी वाणिजी सुगतिः। क्षक्षिकाभावानात्मास्थायीर्षायन्मलं 'नाम ॥ १६ ॥ इति चर्यया विचरतां जात्वस्यां संततौ कश्चित् । ज्ञानक्षणः समुच्छिन्नवासनो मुक्तये भवति ॥१७॥ मुद्राकंकणकटकादीनां भेदे मिथः सुवर्णस्य ।
न भिदास्ति तथा भिन्नं जगन्मिथोऽस्मादभिन्नं च ॥ १८॥ अथ कापालिकमतम् ।
पितृवनवासो माला नरास्थिभिः पारणा सुरामांसः । पात्रं कपालमर्यो नरबलिना भैरवो देवः ॥१९॥ दृष्टं विना तद्विषयैः कापि सुखं नोचिता शिलावस्था ।
सोमः कथयांचवे चर्या भगवान्सु[६२ अभक्तेभ्यः ॥२०॥ इति अतिगहनं चेदमाधुनिकबुद्धिदुरवगाहमिति विरम्यते । एतच्चर्चा च कृष्णमित्रैः संक्षेपेण निबद्धा । यथाः -
1 Corrupt.
For Private and Personal Use Only