SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ઢ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतरुः । साप्युत्पन्नमृषावद्या प्रशस्तादपि कर्मणः । जातावमाना तपसे साध्वी तीर्थान्यशिश्रियत् ॥ २२ ॥ कस्य विप्रवधः सोऽस्तु सर्पश्येनान्नदेष्विह । उदभूद्धर्मराजाये वादो माभूच्च निश्वयः ॥ २३ ॥ तत्र विक्रमसेन त्वं राजन्ब्रूहि ममाग्रतः । इत्थं निशम्य तम्यासौ मुक्तमानोऽब्रवीदिदम् || २४ ॥ तस्य तत्पातकं तावत्सर्पस्य यदि वास्य कः । विवशस्यापराधोऽस्ति भक्ष्यमाणस्य शत्रुणा ॥ २५ ॥ अथ श्येनस्य तेनाsपि किं दृष्टं विदितात्मना । अकस्मात्प्राप्तमानीय भक्ष्यं भक्षयता निजम् ॥ २६ ॥ दम्पत्योरन्नदानोर्वा तयोरेकस्य तत्कृतः । तदहं तस्य मन्ये सा ब्रह्महत्या जडात्मनः । अविचार्यैव यो ब्रूयादेषामेकतरस्य ताम् ॥ २७ ॥ इति नीतिकल्पे मन्त्रिनैपुण्यकथनाभिधानं कुसुमम् । [ ३५ अ ] कुर्वन्तु नाम सामान्यजना नृपतिविप्रियम् । तथापि नो च्यवन्ते ते स्वधर्मार्जनपालनात् ॥ १ ॥ कलेरगम्ये कनकपुराये नगरेऽभवत् । भूपो यशोधराभिख्यः पालयामास मेदिनीम् ॥ २॥ जगदाह्लादकश्चण्डप्रतापोऽखण्डमण्डलः । विधिना यश्च चन्द्रार्कावेकीकृत्येव निर्ममे ॥ ३ ॥ तस्य राज्ञः पुरे तत्र बभूवैको महावणिक् । उन्मादिनीति तस्याभूत्कन्या दर्शनमात्र [ ३८ ब ]तः ॥ ४ ॥ या जगन्मदयामास यौवनस्थातिसुन्दरी । तथोन्मादिनीं दृष्ट्वा सर्वलोकावमानिनीम् ॥ ५ ॥ For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy