SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org चूर्णिभाष्यावचूरिः उ० २ सू० ४१ अन्यतीर्थिक दिसहविचारभूम्यादिगमननिषेधः ६१ सूत्रम् — जे भिक्खू अण्णउत्थिएण वा गारत्थिएण वा पारिहारिओ वा अपारिहारिएण सद्धि बहिया वियारभूमि वा विहारभूमिं वा णिक्खमइ वा पविसइवा, णिक्खमंतं वा पविसंतं वा साइज्जइ ॥ सू० ४१ ॥ Acharya Shri Kailassagarsuri Gyanmandir छाया - यो भिक्षुः अन्ययूथिकेन वा गृहस्थेन वा पारिहारिको वा अपारिहारिकेण सार्द्ध बहिर्विचारभूमिं वा विहारभूमिं वा निष्क्रामति वा प्रविशति बा, निष्कामन्तं वा प्रविशन्तं वा स्वदते ।। सू० ४९ ॥ 1 चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'अण्णउत्थि एण वा' अन्ययूथिकेन वा परतीर्थिकेन 'गारत्थिएण वा' गृहस्थेन वा, तथा पारिहारिको वा अपारिहारिकेण मूलोत्तरगुणदोषवता पार्श्वस्थादिना 'सद्धि' सार्धम् एकत्र मिलित्वा 'बहिया' बहि: - 'वियार - भूमिं वा' विचारभूमिं वा तत्र - विचारः मूत्रपुरीषादिसमुत्सर्गः, तदर्थं योग्या या भूमि: सा विचारभूमिः, तां विचारभूमिम्, 'विहारभूमिं वा' विहारभूमिम्, स्वाध्यायभूमिः विहार भूमिः, तां विहारभूमिम् 'णिक्खमइ वा' निष्क्रामति 'पविसइ वा' प्रविशति विचाराद्यर्थं गच्छति वा । 'णिक्खमंतं वा' निष्क्रामन्तं वा 'पविसंतं वा' प्रविशन्तं वा 'साइज्जइ' स्वदतेऽनुमोदते स प्रायश्चित्तभाग्भवति ॥ सू० ४१॥ अत्राह भाष्यकारः --- भाष्यम् - भिक्खुस्स नेव कप्पे, गंतुमण्णुत्थियाइहिं । : सर्द्धि चारितपालस्स, वियारहं कयाइवि ॥ 1 छाया - भिक्षोर्नैव कल्पते गन्तुमन्ययूथिकादिभिः । सार्द्धं चारित्रपालस्य विचारार्थ कदाचिदपि ॥ अवचूरि : - ' भिक्खुस्स' इत्यादि । यो हि भिक्षुः चारित्रपालकः चारित्रस्य पालने सदा यतनावान् भवति तस्य भिक्षोः विचारार्थं मूत्र - पुरीषायुत्सर्जनाय संज्ञाभूमिम् उपलक्षणाद् विहारभूमिं वा गन्तुम् - अन्ययूथिकादिभिः सह अर्थात् अन्ययूथिकैः परतीर्थिकैः शाक्यभिक्षुक - चरकपरिव्राजकैः सह आदिपदात् - गृहस्थैः, पारिहारिकस्य च अपरिहारिकैः सह गन्तुं न कल्पते । एतेषु गृहस्थपरतीर्थिकाऽपरिहारिकादिषु मध्यादेकतरेणाऽपि सह विचाराद्यर्थं चकारात् -विहाराद्यर्थ वा यो भिक्षुः पारिहारिको वा गच्छति तस्याऽऽज्ञाभङ्गानवस्थामिध्यात्व संयमात्मविराधनादोषा भवन्ति । विचारभूभ्यां पुरुषाद्यागमने संलोकदोषः शङ्का च लोकानां भवेत् । मप्रवर्त्तने मूत्रपुरीषादिनिरोधाद् रोगादिसंभवः । उक्तं च केनचित्क विना राजसमीपे - त्रयः शल्याः महाराज !, अस्मिन् देहे प्रतिष्ठिताः । वायुमूत्रपुरीषाणां प्राप्तं वेगं न धारयेत् ॥ १॥ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy