SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निशीथसूत्रे च्छति 'अणुप्पविसइ वा' अनुप्रविशति-भिक्षार्थ गृहस्थगृहे प्रवेशं करोति । 'णिक्खमंत वा' निष्क्रामन्तं बहिरायान्तम्, 'अणुप्पविसंत वा' अनुप्रविशन्तम् , 'साइज्जइ' स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति ॥ सू० ४० ॥ अत्राह भाष्यकारः - भाष्यम्-नो कप्पए य भिक्खुस्स, अण्णुत्थिय-गिहत्थिहिं । तहेव पारिहारिस्स, तविपक्खेण केणवि ॥ सद्धिं णिक्खमिउं णिच्चं, पविसित्तुं तहेव य । णिक्खमणं पवेसं चे, जो करे दोसवं भवे ॥ छाया-नो कल्पते च भिक्षोः, अन्ययूथिकगृहस्थैः । तथैव पारिहारिणः, तद्विपक्षेण केनापि ॥ सार्द्ध निष्क्रमितुं नित्यं, प्रवेष्टुं तथैव च । निष्क्रमणं प्रवेशं चेद् यः कुर्याद् दोषवान् भवेत् ।। अवचूरिः-'नो कप्पए' इत्यादि । भिक्षोः श्रमणस्यान्यतीर्थिकैः गृहस्थैर्वा, तथा पारिहारिकस्य मूलोत्तरगुणयुक्तस्य तद्विपक्षेण अपारिहारिकेण मूलोत्तरगुणदोषवता पार्श्वस्थादिना सार्थ गृहिगृहे भिक्षार्थ निष्क्रमितुं प्रवेष्टुं वा न कल्पते नैव कथमपि युज्यते । एतैः सह निष्क्रमण प्रवेशनं च कुर्वतः साघोः पारिहारिकस्य चाधाकर्मिकादिदोषाः समापद्यन्ते । यः कोऽपि भिक्षुः पारिहारिकश्च यदि एतैः सह निष्क्रमणं प्रवेशं च कुर्यात् तदा स आज्ञाभङ्गादिदोषभाग् भवति । सूत्रे 'गाहावइकुलं' इति पदं, तस्याऽयमर्थः-गाथा-गृहं तस्य पतिः-स्वामी, दारापत्यादिसमुदादायविशिष्टो गृहस्थः, तेषां कुलं-समूहः । तत्र-'पिंडवायपडियाए' इत्यस्य व्याख्या-पिण्डोऽशनादिकम् , तस्य गृहिणा दीयमानाss. हारस्य पातः ससत्कारं साधवे समर्पणम् , तस्य प्रतिज्ञया मध्यस्थभावेन ग्रहणबुद्धया । तथा 'अणुप्पविसई' तस्याऽयमर्थः-अनु--पश्चात् चरकादिषु भिक्षामादाय गतेषु । अथवा-भोजनकालतः पश्चात् भोजनकालसमाप्त्यनन्तरम् , एवमनुशब्दः पश्चायोगे प्रसिद्धः, भिक्षुः पारिहारिकश्च प्रविशतीत्यर्थः । गृहि-परतीथिकाऽपरिहारिकाऽन्यतमेन सह प्रविशतः श्रमणस्य पारिहारिकस्य च-आज्ञाभङ्गानवस्थामिथ्यात्वसंयमविराधनाऽऽत्मविराधनादिका दोषा भवन्ति । तथा-परिव्राजकादिभिः सह भिक्षार्थ गमने प्रवचनस्य निन्दा भवति । लोको वदतिपरिव्राजकादिप्रसादाल्लभ्यते भिक्षादिकम् , स्वयं न लभ्यते असारवचनप्रवृत्तत्वात् । अथवालोको वदेद्-अलब्धिमन्त एते जैनभिक्षुकाः परभवेऽदत्तदानाः आत्मानं न जानन्ति, अत एभिः सह परिभ्रमन्ति तस्मात् कारणाद एभिः सह न गन्तव्यम् ॥ सू० ४०॥ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy