________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मिडीयो सूत्रम्-जे भिक्खू दंडयं वा लट्ठियं वा अवलेहणियं वा वेणुसूइयं वा सयमेव परिघट्टेइ वा संठवेइ वा जमावेइ वा परिघटेत वा संठवेतं वा जमातं वा साइज्जइ ॥ सू० २६ ॥
छाया-यो भिक्षः दण्डकं वा यष्टिकां वा अवलेहनिकां वा घेणुसूचिको घा, स्व. यमेव परिघट्टयति वा संस्थापयति वा यमयति वा, परिघट्टयन्तं वा संस्थापयन्त वा यमयन्तं वा स्वदते ॥सू० २६ ।।
चूर्णिः-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'दंख्यं वा' दंडकं वा दण्डः-रजोहरणसम्बन्धी तम् 'लट्ठियं वा' यष्टिकां वा-लघुदण्डं 'अवलेहणिय वा' अवलेहनिकां वा-कर्दमावगुण्ठितचरणे तदपनयनाय शलाकाविशेषस्ताम् , 'वेणुसइयं वा वेणुसूचिकां वावेणुवंशस्तन्मयी सूची ताम् , 'सयमेव परिघट्टेई' स्वयमेव परिघट्टयति, परिघट्टनं निर्माणम् तथाचदण्डादीनां निर्माण करोतीत्यर्थः । 'संठवेइ वा संस्थापयति दण्डादिकस्य हस्तिमुखसिंहमुखादीनां निर्माणं करोति । 'जमावेइ वा' यमयति वक्रदण्डादीन् ऋजून् करोति । 'परिघटेतं वा' परिघट्टयन्तं-निर्माणं कुर्वन्तम् , 'संठतें वा' संस्थापयन्तम् , 'जमावे वा' यमयन्तं वक्र ऋजुं कुर्वन्तम् 'साइज्जई' स्वदतेऽनुमोदते स प्रायश्चित्तभाग्भवति ॥ सू० २६ ॥
सूत्रम्-जे भिक्खू णियगगवेसियं पडिग्गहं धरेइ धरेतं वा साइज्जइ ॥ सू० २७ ॥
छाया-यो भिक्षुर्मिजकगवेषितं प्रतिग्रह धरति धरन्त वा स्वदते ॥ सू० २७ ॥
चूर्णिः- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः ‘णियगगवेसियं निजकगवेषितम् , निजकः स्वजनः सांसारिको मातृ-पितृ--बन्धुबान्धवादिः तेनाऽन्विष्यानीतम् 'पडिगई' प्रतिग्रहं -पात्रम् 'धरेइ' धरति पार्श्वे स्थापयति गृह्णाति । 'धरतं वा साइज्जइ' धरन्तं पार्थे स्थापयन्तमन्यं स्वदतेऽनुमोदते स प्रायश्चितभाग्भवति ॥ सू० २७ ॥
सूत्रम्-जे भिक्खू परगवेसियं पडिग्गहं धरेइ धरेत वा साइज्जइ ॥ सू० २८॥
छाया यो भिक्षुः परगवेषितं प्रतिग्रह धरति, धरन्तं पा स्वदते ॥ सू० २८॥
चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुरित्यादि पूर्ववत् । नवरम्'परगवेसियं' परगवेषितम् , तत्र-परोऽन्यः स्वजनातिरिकः सामान्यगृहस्थः विसंभोगी संयतो वा, तेन गवेषितमन्वि यानीतम् ॥ सू० २८ ॥
For Private and Personal Use Only