________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
चूर्णि भाग्यावचूरिः उ० २ सू० २५-२६
पात्रदण्डकादीनां परिघट्टनादिनिषेधः ४९
Acharya Shri Kailassagarsuri Gyanmandir
- अभिनवाचार को दोषस्तग्राह भाष्यकारः -- ' अभिण्ण०' इत्यादि ।
भाष्यम् - अभिण्यवत्यजुरास्स, भवे चोरभयाइयं । पडिलेहणबाधा, संजमत विराहणं ॥
छाया----अभिन्नवस्त्रयुक्तस्य भवेोरभयादिकम् । प्रतिलेखनाचादि संयमात्मविराधनम् ||
अवचूरि :- अभिन्नवस्त्रयुक्तस्य साधोः चौरभयम्, चौरो हि-अभिन्नवस्त्रं दृष्ट्वा तल्लो - भात् - चोरयितुमागच्छेत्, मारयेदपि कदाचित्साधु मित्यात्म विराधनासंभवः । तथा तादृशविपुलवस्त्रस्य सम्यक् प्रतिलेखनमपि न संभवतीति तदकरणजनितोऽपि दोषः । प्रतिलेखनाद्यकरणे संयमविराधनं स्यात्, अतः साधुभिरभिन्नवस्त्रं न धारणीयम् ॥ सू० २४ ॥
सूत्रम् — जे भिक्खू लाउपायं वा दारुपायं वा मट्टियापायं वा सयमे परिघट्टेइ वा संवेइ वा जमावेइ वा परिघट्टेतं वा संठवेंत वा जमावे वा साइज्जइ ॥ सू० २५ ॥
छाया - यो भिक्षुः अलाबूपात्रं वा दारुपात्रं वा मृत्तिकापात्रं वा स्वयमेव परिषदति वा संस्थापयति वा 'जमावेइ' इति यमयति वा परिघट्टयन्तं वा संस्थापयन्तं वा यमयन्तं वा स्वदते ॥ सू० २५ ॥
चूर्णिः - 'जे भिक्खू' द्रत्यादि । 'जे भिक्खू' यो भिक्षुः 'लाउपायं वा' अलाबूपात्र वा 'तुम्बा' इति लोकप्रसिद्धम् 'दारुपायं वा' काष्ठपात्रं वा, 'महियापायं वा' मृत्तिकापात्रं वा 'सयमेव परिघट्टेइ' स्वयमेव परिघट्टयति-निर्माति । 'संठवे वा' संस्थापयतितत्र - संस्थानमवयव विशेषः मुखादिकं पात्रस्य करोतीत्यर्थः ' जमावे वा' यमयति - विषमं समं करोति, तथाच - पात्राणां विषमभागं समीकरोतीत्यर्थः । तथा - 'परिघट्टे वा' परिघ - ट्टयन्तं वा - निर्माणं कुर्वतं वा 'संठवेंतं वा' संस्थापयन्तं वा, 'जमावेंतं वा' यमयन्तं वा, विशेषतो विषमभागस्य समतां कुर्वन्तं वा 'साइज्मइ' स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति ।
तत्र — पूर्वघट्टितादिपात्राणां ग्रहणं कल्पते, तत्र--त्रिविधमपि पात्रं बहुकर्मिताऽल्पक - र्मिताऽपरिकर्मितभेदात् त्रिप्रकारकं भवतीति प्रकृतसूत्रविषये प्रथमोदेशके-- एव व्याख्यानं कृतं तत एव द्रष्टव्यम् । विशेषस्तु केवलमेतावानेव यत् प्रथमोदेशके परकृतं निषिद्धम्, अत्र तु स्वयंकरणस्य निषेध इति ॥ सू० २५ ॥
७
For Private and Personal Use Only