SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चूाणमार धूणिमाच्यावचूरिः उ० २ सू० ९-१० गन्धाघ्राणपदमार्गादिनिरूपणम् ३७ अवचूरिः-'अचित्ते' इत्यादि । अचित्ते द्रव्यजाते शुष्कचन्दनकाष्ठादौ यत्र तत्र वाsन्यत्र गन्धजातं यत्किञ्चित्प्रकारकं सुगन्धजातं प्रवर्तते, तस्य गन्धजातस्याऽऽघ्राणं द्विविधम्-द्विप्रकारकं भवति-संबद्धम् , तथा तदितरत् तद्भिन्नम् असम्बद्धम् । अयं भावः-अचित्ते द्रव्ये यो गन्धस्तिष्ठति सोऽचित्तद्रव्यप्रतिष्ठितो गंधो यथा शुष्कचन्दनकाष्ठादौ, अन्यत्र वा तेलादो वर्तमानः, तस्य गन्धस्याऽऽघ्राणं द्विप्रकारकम् यथा-नासाग्रसंबद्धस्य नासाग्राऽसंबद्धस्य च, अथवा चन्दनकाष्ठादिस्थितस्य, ततः पृथक्कृतस्य तैलनिर्यासादिरूपस्य वा आघ्राणम् । तद् यथा-कश्चिन्नासापुटसलग्नं कृत्वा जिघ्रति, कश्चिन्नासातो दूरेऽवस्थित वायुद्वारा समागतं वा, अथवा संबद्धं चन्दनकाष्ठादिस्थितम् , असंबद्धं तत्पृथकृतं तैलनियासादिरूपं वा यो यतिः-मुनिः जिघ्रति तस्याज्ञाभङ्गादिका दोषा भवन्ति । तथाहि-तीर्थक राज्ञां समुल्लङ्घयति, मिथ्यात्वं च प्राप्नोति तत्र संयमात्मविराधनासद्भावात् । तत्र संयमविराधनाइत्थम्-नासिकानिःसृतसुगन्धनिःश्वासेन वायुकायगतजीवानां विराधनं भवति । आत्मविराधनं यथा-तस्मिन् गन्धे यदि विषं भवेत् , तदा तदाघ्राणे आत्मविराधनमपि संभवति । यथा-सुगन्धितद्रव्यलोलुपाः समागताः सर्पादयो दंशनं कुर्युः । सचित्तप्रतिष्ठितगन्धाऽऽघ्राणं तु प्रथमोदेशे एकादशे सूत्रे निषिद्धमेव, इति । सू० ९॥ सूत्रम्-जे भिक्खू पदमग्गं वा संकमंवा आलंबणं वा सयमेव करेइ करेंतं वा साइज्जइ ।। सू० १०॥ छाया-यो भिक्षुः पदमार्ग वा संक्रमं वा मालम्बनं वा स्वयमेव करोति कुर्वन्तं षा स्वदते ॥ सू० १०॥ चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'पदमग्गं वा' पदमार्गपदमार्गः-पादस्थापनार्थ मृत्तिकादि प्रक्षिप्य गमनागमनाथ मार्गः क्रियते तम् , स सोपाममिति कथ्यते । पदमार्गादित्रयाणामपि पदानां विस्तरतोऽर्थ करिष्यति भाष्यकारः । 'संकमं वा' संक्रमं बा, संक्रमः कर्दमाधुल्लङ्घनार्थ काष्ठेष्टिकादिस्थापनरूपस्तम् । 'आलंबणं वा' मालम्बनं वा, आल. म्बनम्-यदालम्ब्य कर्दमग दिकमुल्लङ्घयते तत् मुञ्जशणादिनिर्मितरज्जुरूपं, तत् 'सयमेव करेइ' स्वयमेव करोति । अन्यतीकिगृहस्थैः कारितपदमार्गादीनां निषेधः प्रथमोदेशे गतः, अतोऽत्र 'स्वयमेव' इति प्रोक्तम् , एवमग्रेऽपि बोध्यम् । करेंतं वा साइज्जइ' कुर्वन्तं वा स्वदते तस्याज्ञाभङ्गादिका दोषा मवन्ति ॥ सू० १० ॥ माष्यम् -- पदमग्गो संकमो य, आलंबण तहेव य । तिविहपि करे भिक्खू, आणामंगाइ पावई ॥ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy