SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निशोथ ओ मांसाओ' द्वयर्धान्मासात् परमधिकं यदि धारणं करोति घरन्तं वा स्वदते स प्रायः विर्सभाम् भवति । उत्सर्गतो व्याघातितं रजोहरणं यः सार्द्धमासादधिककालपर्यन्तं धारयति, यथा-परन्तमनुमोदते स आज्ञामजदोष-मनवस्थादोष मिथ्यात्वदोषमात्मविराधनं संयमविराधनं च प्राप्नोति ॥ सू०७॥ सूत्रम्-जे मिक्खू दारुदंडयं पायपुछणं विसुयावेइ विसुयावेतं व साइज्जह ।। सू०८॥ छाया-यो भिक्षुरुदण्डकं पादप्रोञ्छनं विशुष्कयति विशुष्कयन्तं वा स्वदते । चूर्णी-'जे भिक्खू' इत्यादि। 'जे भिक्खू' यः कश्चिद्भिक्षुः दारुदंडयं पायपुंछणं दारुदंडकं निषधारहितं पादप्रोञ्छनं-रजोहरणम् 'विसुयावेइ' विशुष्कयति आतपे ददाति 'विसुयावेत वा साइज्जइ' विशुष्कयन्तं वा स्वदते-आतपे ददतं वाऽनुमोदते, तस्याज्ञाभङ्गादिका दोषा भवन्ति ।८। सूत्रम्-जे भिक्खू अचित्तपइट्ठियं गंधं जिग्घइ जिग्छतं वा साइ ज्जह ॥ सू०९॥ छाया यो भिक्षुरचित्तप्रतिष्ठितं गंधं जिघ्रति जिवन्तं वा स्वदते ॥ सू० ९॥ चूर्णी-जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः 'अचित्तपइडियं' अचितप्रतिष्ठितम् , अचित्ते वस्तुनि चन्दनकाष्ठादौ यत्र तत्र वा प्रतिष्ठितं विद्यमानम् 'गंध' गन्धम् मुर्गन्धम् 'जिग्यइ' जिप्रति, गन्धो द्विविधः-संबद्धः असंबद्धो वा, संबद्धो गन्धः सः यो नासिकासंबन्धन आघ्रायते, असंबद्धो गन्धः स यो दूरतः समीपतो वा वायुद्वारा समागत आप्रायते, 'अथवा संबद्धो गन्धः स यश्चन्दनकाष्ठादौ स्थितः, असंबद्धः सः यः गन्धद्रव्यात्पृथक्कृतश्चन्दनादीनां तैलरूपो निर्यास(अतर)रूपो वा, तं द्विविधमपि गन्धं रागेण द्वेषेण वा जिघ्रति, जिग्यत पी. साइज' जिज्रन्तं वा स्वदतेऽनुमोदते तस्याज्ञाभङ्गादिका दोषा भवन्ति ॥ सू० ९ ॥ भाष्यम्-अचित्ते दध्वजाए जं, गंधजायं पवत्सए । अग्घाणं दुविहं तस्स, संबद्धं च तहेयरं ॥ दुविहंपि गंधजायं, जिग्घई रागओ जई। भाणाभंगाइ पावेइ, मिच्छत्तं पडिवज्जइ ।। छाया-अचित्ते द्रव्यजाते यत्, गन्धजातं प्रवर्तते । आघ्राणं द्विविधं तस्य, संबद्धं च तथेतरत् । द्विविधमपि गन्धजातं, जिघ्रति रागतो यतिः। आज्ञाभङ्गादि प्राप्नोति, मिथ्यात्वं प्रतिपद्यते । " For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy