________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निशीथसूत्रे
उरणौ च कोणे ॥१॥X मलिकलित एकल किया था, एकोऽयम् । अथातोऽम्
प्रतीतस्तेनबन्धः, स चाऽयम्।
एते सर्वेऽप्यविधिबन्धाः । विधिबन्धस्तु मुद्रिकासंस्थित ५
नौबन्धसंस्थितश्च ६ । एतेषु बन्धेषु-अविधिमध्यादेकतरेणापि बन्धेन त्रयाणां पात्राणां मध्यात् एकमपि पात्रं बन्धयेत् स आज्ञाभङ्गादिकं दोषं प्राप्नोतीति ।। सू० ४५॥
सूत्रम्-जे भिक्खू पायं एगेण बंधेण बंधइ, बंधतं वा साइज्जइ ॥ छाया-यो भिक्षुः पात्रमेकेन बंधेन बध्नाति बध्नन्तं वा स्वदते ॥ सू० ४६ ।।
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः, 'पार्य पात्रं तुम्बिकादिपात्रम् 'एगेण बंधेण बंधइ' एकेन बन्धेन बध्नाति । सामान्यतस्तावत्कथितम् यत् "अवन्धनं पात्रं तुम्बिकादिकं ग्रहीतव्यम्" पात्रस्यैकबन्धनमपि कुर्वतस्त एवाज्ञाभङ्गादिका दोषा भवन्तीति कथयितुमिदं सूत्रं प्रवृत्तम् । तच्चैवं प्रतिपादयति यत् कश्चिदेकबन्धनं पात्रे करोति स आज्ञाभङ्गादिकान् दोषान् प्राप्नोति, तथा 'बंधतं वा साइज्जई' बध्नन्तं वा एकेन बन्धेन पात्रादिकं बध्नन्तं स्वदतेऽनुमोदते यः सोऽपि प्रायश्चित्तभाग्भवतीति ॥ सू० ४६ ॥
अत्राह भाष्यकार:भाष्यम्-पायमेगेण बंधेण, बंधेज्जा भिक्खुओ जइ ।
विहिणाऽविहिणा वा से, आणाभंगाइ पावइ ॥ छाया--पात्रमेकेन बंधेन, बध्नोयाद्भिक्षुको यदि ।
विधिनाऽविधिना वा स आशाभङ्गादि प्राप्नोति ।। अचूरिः-- 'पायमेगेण' इत्यादि । यः कश्चित् श्रमणः एकेन एकावृतेन बन्धेन विधिना मुद्रिकासंस्थानेन नौबन्धनसंस्थानेन वा, अविधिना स्वस्तिकादिबंधनेन वा, पात्रमलाबूप्रभृतिकं बन्धयेत् पात्रस्य बन्धनं कुर्यात् यदि, एवं कुर्वाणः स आज्ञाभङ्गादिकान् दोषान् प्राप्नोति तस्माद्विधिना वा अविधिना वा पात्रस्यैकावृतेन बन्धनेन बन्धनं न कुर्यादिति ॥ सू० ४६ ।।
सूत्रम्-जे भिक्खू पायं परं तिण्हं बंधाणं बंधइ, बंधतं वा साइज्जइ ॥ छाया--यो भिक्षुः पात्रं परं त्रयाणां बंधानां बध्नाति बध्नन्त वा स्वदते । सू० ४७॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खु यो भिक्षुर्निर्ग्रन्थः 'पाय' पात्रं तुम्बिकाप्रभृतिकम् । 'परं तिण्हं बंधाणं बंधई' परं त्रयाणां बन्धानां बध्नाति त्रिरावृतबन्धनात्परं चतु
For Private and Personal Use Only