________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निशीथसत्र
'ठवणा' इत्यादि, स्थापनापरिहारनानावं-स्थापनापरिहारविषये भेदो ज्ञातव्यः, अयं भाव:अधस्तनपूर्वसूत्रेषु आदितः षोडशस्त्रपर्यन्तसूत्रेषु परिहारतपो न कथितम् , इह तु सप्तदशसूत्रादनन्तरसूत्रेषु परिहारतपसः प्रतिपादनं कृतम् , इत्येतावानेव विशेष इति ॥ सू. १८-२०॥
इदानी मासादौ प्रस्थापिते अन्तरा यदन्यदिनमासादिपापस्थानं प्रतिसेवते तत्र यस्मिन् पापस्थाने दिक्सग्रहणप्रमामं प्रस्थापितं स्थापनावपं भव्यते तदेव दर्शयति-'छम्मासियं इत्यादि ।
सूत्रम्-छम्मासियं परिहारट्ठाणं पठविए अणगारे अंतरा दोमासियं परिहारट्ठाणं पडिसे वित्ता आलोएज्जा अहावरा वीसइराइया आरोवणा आइमज्झावसाणे संअटुं सहेउं सकारणं अहींणमइरितं तेण परं सकीं. सइराइया दो मासा ॥ सू० २१॥
छाया पाण्मासिक परिहारस्थान प्रस्थापितोऽनगारः अन्तरा द्वमासिकं परिहारस्थानं प्रतिसेव्य मालोचयेत् अथापरा विंशतिरात्रिकी मारोपणा आदिमध्यावसाने सार्थ सहेतुं सकारणमहीनातिरिक्तं तेन परं सविंशतिरात्रौ द्वौ मासौ ॥ सू० २१ ।।
चूर्णी- 'छम्मासियं' इत्यादि । 'छम्मासियं' पाण्मासिकम् तत्र घडिति संख्याविशेषलक्षणं मासिकम्, तत्र मानानि समयावलिकादीनि मसतीति मासः, मासी मासान्तकः कालः परिमाणमस्येति मासिकम्, षभिर्मासै निष्पन्नं यत् तत् पाण्मासिकम् 'परिहारदाणं' परिहारस्थानम्-परिहारस्य स्थानं परिहारस्थानम्-सावधकर्मणामनुष्ठानलक्षणम् तत्प्रति 'पट्टविए' प्रस्थापितः मशुभकर्मणां क्षयार्थ स्थापितः प्रायश्चित्तं वहमान इत्यर्थः 'अणगारे' अनगार:-श्रमणः श्रमणी वा 'अंतरा दोमासियं परिहारहाणं पडिसेवित्ता' अन्तरा द्वैमासिकं परिहारस्थानं प्रतिसेव्य तत्र अन्तरा मध्ये समारब्धप्रायश्चित्तस्य मध्ये इत्यर्थः द्वैमासिकम्-मासद्वयेन संपादनयोग्यं परिहारस्थानं पापस्थानम् 'पडिसेवित्ता' प्रतिसेव्य-प्रायश्चित्तकरणसमयेऽपि द्वैमासिकप्रायश्चित्तस्थानस्य प्रतिसेवनं कृत्वा 'पालोएज्जा' आलोचयेत् कृतपापकर्मण आलोचना गुरवे दर्शयेत् । तत्र मायारहितभावेन बालोचनां कुर्वतः 'अहावरा वीसहराइया' आरोवणो' अथापर विशतिरात्रिकी आरोपणा, तत्रं अथेत्ययमानन्तर्यार्थको निपातः, अपरा-मासद्वयादन्या, यदि अयं पाण्मासिकं तपो वहन् मध्ये द्वैमासिकं परिहारस्थानं प्रतिसेवते प्रतिसेव्य मायारहितमालोचयेत् तदा गुरुः तस्मै प्रतिसेवितमासद्वयोपरिविंशतिरात्रिकी. आरोपणा कर्तव्या विंशतिरात्रिसम्पादनीयप्रायश्चित्तं वर्धयेदिति भावः । षण्णां मासानां त्रिभागं कृत्वा तत्र भागद्वयं परित्यजेत् , एक भागं मासद्वयप्रमाणं प्रायश्चित्तं पुनरपरं दद्यात् तदेवं मासद्वयसम्पाद्यं प्रायश्चित्तं समीलयित्वा विंशतिरात्रिकं प्रायश्चित्तं दद्यात् ।
For Private and Personal Use Only