SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चूर्णि भाष्यावचूरिः उ० २० सू०२१ परिहारस्थानप्रस्थापितस्याऽऽरोपणाविधिः ४४५ कपाञ्च मासिकं वा पतेषां परिहारस्थानानाम् अन्यतमं परिहारस्थानं प्रतिसेव्य आलोचयेत् परिकुच्य आलोचयतः स्थापनीयं स्थापयित्वा करणीयं वैयावृत्यं, स्थापितेऽपि प्रति सेव्य तदपि कृत्स्नं तत्रैव आरोहयितव्यं स्थात्, पूर्व प्रतिसेवितं पूर्वमालोचितम्), पूर्व प्रतिसेतितं पश्चादालोचितम् २, पश्चात्प्रतिसेवितं पूर्वमालोचितम् ३ पश्चात्प्रतिसेवितं पश्चादालोचितम् ४ । अप्रतिकुञ्चिते अप्रतिकुञ्चितम् १, अप्रतिकुञ्चिते प्रतिकुञ्चितम् २, प्रतिकुञ्चिते प्रतिकुञ्चितम् ३, प्रतिकुञ्चिते प्रतिकुञ्चितम् ४ । प्रतिकुञ्चिते प्रतिकुचितमालोचयतः सर्वमेतत् स्वकृतं संहृत्य य पतया प्रस्थापनया प्रस्थापितो निर्विशमानः प्रतिसेवते तदपि कृत्स्नं तत्रैव आरोहयितव्यं स्यात् ॥ सू० १९ ॥ यो भिक्षुर्वशोऽपि मासिकं वा बहुशोऽपि सातिरेकमासिकं वा बहुशोऽपि द्वैमासिकं वा बहुशोऽपि सातिरेकद्वैमासिकं वा बहुशाऽपि त्रैमासिकं वा बहुशोऽपि सातिरेकत्रैमासिकं वा बहुशोsपि चातुर्मासिकं वा बहुशोऽपि सातिरेकचातुर्मासिकं वा बहुशोऽपि पाञ्चमासिकं वा बहुशोऽपि सातिरेकपाञ्वमासिकं वा एतेषां परिहारस्थानानामन्यतमम् परिहारस्थानं प्रतिसेव्य आलोचयेत् प्रतिकुव्य आलोचयतः स्थापनीयं स्थापfear करणीयं वैयावृत्यं स्थापितेऽपि प्रतिसेव्य तदपि कृत्स्नं तत्रैव आरोहयितव्यं स्यात् पूर्वं प्रतिसेवितं पूर्वमालोचितम् १, पूर्व प्रतिसेवितं पञ्चादालोचितम् २, पञ्चात्प्रति सेवितं पूर्वमालोचितम् ३, पञ्चात्प्रतिसेवितं पश्चादालोचितम् ४ । अप्रतिकुञ्चिते अप्रतिकुचितम् १, अप्रतिकुञ्चिते प्रतिकुबितम् २, प्रतिकुञ्चिते अप्रतिकुचितम् 3, प्रतिकुञ्चिते प्रतिकुञ्चितम् ४ । प्रतिकुञ्चिते प्रतिकुञ्चितमालोचयतः सर्वमेतत् स्वकृतं संहृत्य य एतया प्रस्थापनया प्रस्थापितो निर्विशमानः प्रतिसेवते तदपि कृत्स्नं तत्रैव आरोहयितव्यं स्यात् ॥ सू० २०॥ चूर्णी - इदं सूत्रत्रयं (१८ - १९-२० ) बहुशः सातिरेकेति संयोगरूपं प्रायश्चित्तारोपणाविषयकं बहुशः सातिरेकेति संयोगमधिकृत्य पूर्ववदेव व्याख्येयम् । पूर्वोक्तानां सर्वेषा परिहारस्थान सेवनविषयकप्रायश्चित्तसूत्राणामुपसंहारं वक्तुकामों भाष्यकारः पूर्वसूत्रातिदेशेन प्राह सुत्तविभासा जा उ हिट्ठिमसुते सोलसेसु य । सा चेव इहं णेया, ठवणा - परिहार णाणतं १ ॥ छाया -- सूत्रविभाषा या तु अधस्तनसूत्रेषु षोडशसु च । सैव इह ज्ञातव्या स्थापना - परिहार- नानात्वम् ||१|| अवचूरि : - या तु सूत्रविभाषा 'जे भिक्खू' इत्यादि सूत्रावयवव्याख्या एकद्विकत्रिकादिसंयोग प्रदर्शनस्वरूपा अधस्तनसूत्रेषु - आधसूत्रेषु षोडशसंख्यकेषु वर्णिता सा एव विभाषा इह उपरितनेषु सप्तदशादारभ्य ' बहुसोवि साइरेग' इति संयोगसूत्रपर्यन्तेष्वपि सूत्रेषु ज्ञातव्या वक्तव्येत्यर्थः । अथ यदि सैव वक्तव्यता इहापि तदा पूर्वसूत्रेभ्य एतेषां सूत्राणां को विशेषस्तत्राह - For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy