________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२८
निशीथसूत्र करोति तथा 'पडिच्छंत वा साइज्जइ' प्रतीच्छन्तं वा-सूत्रार्थयोरध्ययनं कुर्वन्तं श्रमणान्तरं स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति तस्याऽऽज्ञाभङ्गादिका दोषा अपि भवन्ति तस्मात्कारणात् श्रमणः श्रमणी वा पार्श्वस्थ सकाशात् अध्ययनं न कुर्यात् न कुर्वन्तमनुमोदयेदिति ॥सू० २८॥
एवमवसन्नादीनाम् अष्टौ सूत्राणि वाच्यानि तथाहि
सूत्रम्--जे भिक्खू ओसन्नं वाएइ० ॥ सू० २९॥ ओसन्नस्स पडिच्छइ ॥ सू०३०॥ कुसीलं वाएइ०॥ सू० ३१॥ कुसीलस्स पडिच्छइ० ॥ सू० ३२॥ णितियं वाएइ० ॥ सू० ३३ ॥ णितियस्स पडिच्छइ० ॥ सू०३४॥ संसत्तं वाएइ० ॥ सू० ३५॥ जे भिक्खू संसत्तस्स पडिच्छइ पडिच्छंतं वा साइज्जइ ।। सू० २९-३६॥
छाया-यो भिक्षुरवसन्नं वाचयति ॥ सू०२९॥ अवसन्नस्य प्रतीच्छति० ॥स्०३०॥ कुशोलं वाचयति ॥ ० ३१ ॥ कुशीलस्य प्रतीच्छतिः ।सू ३२ ॥ नैत्यिकं वाच. यति ।। सू०३३।। नैत्यिकस्य प्रतीच्छति ॥सू. ३४|| संसक्तं वाचयति० ॥ सू० ३५॥ यो भिक्षुः संसक्तस्य प्रतीच्छति प्रतीच्छन्तं वा स्वदते ॥ सू० ३६ ॥ ___ चूर्णी-एषां व्याख्या पार्श्वस्थसूत्रस्येव कर्तव्येति ।। सू० २९-३६ ॥
सूत्रम्-तं सेवमाणे आवज्जइ चाउम्मासियं परिहारट्ठाणं उग्घाइयं ॥ सू० ३७॥
॥ निसीहज्झयणे एगृणवीसइमो उद्देसो समत्तो ॥१९॥ - छाया-तत् सेवमान आपद्यते चातुर्मासिकं परिहारस्थानमुद्घातिकम् ॥सू०३७॥
॥ निशीथाध्ययने एकोनविंशतितमोद्देशकः समाप्तः ॥१९॥ चूर्णी-'ते' इत्यादि । 'तं' तत्-विकृतं-क्रीणातीत्यारभ्य संसक्तस्य प्रतीच्छतीति पर्यन्तम् एकोनविंशत्युदेशकोक्तं प्रायश्चित्तस्थानम् 'सेवमाणे' सेवमानः तस्य प्रतिसेवनां कुर्वन् एकं द्विकमनेकं सर्व वा प्रायश्चित्तस्थानं प्रतिसेवमानः 'आवज्जइ' आपद्यते-प्राप्नोति 'चाउम्मासियं चातुर्मासिकम् 'परिहारद्वाण परिहारस्थानं प्रायश्चित्तम् उग्घाइयं उद्घातिर्फ लघुकमित्यर्थः लघुचातुर्मासिकं प्रायश्चित्तं प्राप्नोतीत्यर्थः ॥ सू० ३७॥ इति श्री-विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापक प्रविशुद्धगद्यपधनैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहूछत्रपतिकोल्हापुरराजप्रदत्त"जैनशास्त्राचार्य"-पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्री-घासीलालवति-विरचितायां "निशीथसूत्रस्य" चूर्णिभाष्यावरिरूपायां व्याख्यायाम् एकोनविंशतितमोदेशकः समाप्तः॥१९॥
For Private and Personal Use Only