________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पूर्णि० उ० १९ सू० २५-३७ अन्यतीथिकादिपार्श्वस्थादीनां वाचनादानाऽऽदाननि० ४२७
सूत्रम्-जे भिक्खू अण्णउत्थियं वा गारत्थियं वा वाएइ वाएंतं वा साइज्जइ ॥ सू० २५ ॥
छाया-यो भिक्षुरन्ययूथिकं वा गृहस्थं वा वाचयति वाचयन्तं वा स्वदते ।।
चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'अण्णउत्थियं वा' अन्ययुथिकं - अन्यतीर्थिकं तापसपरिव्राजकादिकम् 'गारस्थियं, गृहस्थं वा 'वाएई' वाचयति-सूत्रवाचनां ददाति सूत्रमध्यापयति तथा 'वाएंतं वा साइज्जई' वाचयन्तम्एवं वाचनां ददतं श्रमणान्तरं यः श्रमणः श्रमणी वा स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ॥२५॥
सूत्रम्--जे भिक्खु अण्णउत्थियस्स वा गारत्थियस्स वा पडिच्छइ पडिच्छंतं वा साइज्जइ ।। सू० २६॥
छाया-यो भिक्षुरन्ययूथिकस्य वा गृहस्थस्य वा प्रतीच्छति प्रतीच्छन्तं वा स्वदते ॥ २० २६॥
चूर्णी-'जे भिक्खू इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'अण्णउत्थियस्स वा' अन्ययूथिकस्य वा तापसपरिव्राजकादिकस्य 'गारस्थियस्स वा गृहस्थस्य वा सकाशात् 'पडिच्छई' प्रतीच्छति-वाचनां स्वीकरोति, तापसादितो गृहस्थाद् वा सूत्रमर्थ बा अधीते तथा 'पडिच्छंतं वा साइज्जइ' प्रतीच्छन्तं वा तापसादितः सूत्रमर्थ वा अधीयानं श्रमणान्तरं स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ॥२६॥ .
सूत्रम्-जे भिक्खू पासत्यं वाएइ वाएंतं वा सइज्जइ ॥ सू० २७॥ छाया-यो भिक्षुः पार्श्वस्थं वाचयति वाचयन्तं वा स्वदते ॥२७॥
चर्णी---'जे भिक्खू' इत्यादि । 'जे भिवखू' यः कश्चिद् भिक्षु श्रमणः श्रमणी वा 'पासत्थं' पार्श्वस्थम्-ज्ञानदर्शनचारित्रस्य पार्श्व-समीपे तिष्ठति यः स पार्श्वस्थः ज्ञानादिसमीपे स्थितः किन्तु न तदाराधकः, स द्रव्येण श्रमणः न तु भावेन, तादृशं पार्श्वस्थं यः श्रमणः श्रमणी वा 'वाएइ' वाचयति- सूत्रार्थयोर्वाचनां ददाति तथा 'वाएतं वा साइज्जई' वाचयन्तं-पार्श्वस्थं सूत्रार्थयोः वाचनां ददतं श्रमणान्तरं स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ।।सू०२७॥
सूत्रम्-जे भिक्खू पासत्थस्स पडिच्छइ पडिच्छंतं वा साइज्जइ॥ छाया-यो भिक्षुः पार्थस्थस्य प्रतीच्छति प्रतीच्छन्तं वा स्वदते ॥ सू० २२॥
चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'पासत्यस्स' पार्श्वस्थस्य-यथोक्तलक्षणस्य सकाशात् 'पडिच्छइ' प्रतीच्छति-पार्वस्थात् सूत्रार्थयोरध्ययन
For Private and Personal Use Only