________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ર૪
निशीथसत्रे 'वाइए' वाचयति-वाचनां ददाति, तत्र कोयमपात्रको यस्मै वाचनां न दद्यात् ? तत्रोच्यते-अपात्रको नाम क्रमानधीतश्रुतकः यथाक्रमं श्रुतं यो नाधीतवान् सोऽपात्रकः अयोग्य इति, तस्मै-ताहशाय अपात्राय वाचनां ददाति, तथा 'वाएतं वा साइज्जइ' वाचयन्तं वा श्रमणान्तरं स्वदतेअनुमोदते स प्रायश्चित्तभागी भवति, यतो हि अपात्राय वाचनादाने स तद्दत्तां वाचनां वैपरीत्येन परिणमयति तदा तद्वाचनादाता तद्दोषभाग भवति, उक्तं चात्र
"आमे घडे निहितं, जहा जलं तं घडं विणासेड । इय सिद्धंतरहस्सं, अप्पाहारं विणासेइ ॥१॥" इति । छाया-आमे (अपक्वे) घटे निहितं यथा जलं घटं विनाशयति ।
इति सिद्धान्तरहस्यं अल्पाधारं विनाशर्यात ॥१९॥ इति सू० १९ जे भिक्खू पत्तं ण वाएइ ण वाएतं वा साइज्जइ ॥सू० २०॥ छाया–यो भिक्षुः पात्र न वाचयति न वाचयन्तं वा स्वदते । सू० २०॥
चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'पत्तं ण वाएइ' पात्रं न वाचयति. तत्र-अपात्रप्रतिपक्षभूतं पात्रं वाचनाग्रहणयोग्यम् भवस्थाविनयादिभियोग्यं क्रमाधीतश्रुतं वा श्रमणं वाचनां न ददाति तथा 'ण वाएंतं वा साइज्जई' न वाचयन्तं वा, न वाचयन्तमिति-अवाचयन्त-पात्राय वाचनामददतं श्रमणान्तरं यः स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ।।
अथ कोदशोऽपात्रको यस्मै वाचना न देया, तथा कोदशश्च पात्रको यस्मै वाचनाऽदाने दोषस्तत्राह भाष्यकारःभाष्यम्-तितिणिए चलचित्ते, गाणंगणिए य दुब्बलचरित्ते ।
आयरियप्पडिभासी, वामावडे य पिसुणे य ॥१॥ एयं जो वाएई, विवरीयं नो य वायए जो उ ।
आणाभंगप्पभिई दोसे पावेइ सो नियमा ॥२॥ छाया- तितिणिकश्वलचित्तः गाणंगणिकश्च दुर्बलचरित्रः ।
आचार्यप्रतीभाषी वामावत्तप्रचपिशुनश्च ।।१॥ पतं यो वाचयति, बिपरीतं नो च वाचयेद् यस्तु ।
आज्ञाभङ्गप्रभृतीन, दोषान् प्रामोति स नियमात् ॥२॥ अवचूरिः-तत्र तितिणिकः बडबडेति भाषकः रूक्षस्वभावकः १, चलचित्तः-अस्थिरचित्तः २, गाणंगणिकः स यः खलु कारणं विनैव एकस्मात् गणात् गणान्तरे गच्छति ३, दुर्बलचरित्रः स यः खलु मूलगुणोत्तरगुणविराधनायाः प्रतिसेवनां करोति तथा धृतिबलपरिहीनः ४, आचार्यप्रतिभाषी सः
For Private and Personal Use Only