________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
चूर्णिमायावचूरिः उ०१९ सू०१७- २० सूत्रवाचनोत्क्रमापात्र पात्र वाचनाऽवाचननि० ४२३
तथा यत् सूत्रं यस्य सूत्रस्याग्रेतनं तत् तस्य उपरितनं सूत्रं कथ्यते, यथा दशवैकालिकसूत्रस्यावश्यकसूत्रम् अघस्तनमिति भवति, एवमुत्तराध्ययनसूत्रस्य दशवैका लिकसूत्रमधस्तनं भवति, अथवा - द्रव्यक्षेत्र कालभावाः एते सर्वे यत्र समवगाढाः भवन्तीत्युच्यते तत् समवसरणम् । तत् समवसरणं, पुनः किंस्वरूपकम् ? तत्रोच्यते-अङ्गम्, श्रुतस्कन्धः, अध्ययनम्, उद्देशकश्च, तत्राङ्गं यथा-आचाराङ्गादिकम् तथा च सूत्रकृताङ्गादाचाराङ्गमधस्तनमिति, आवाराङ्गसुत्रमवाचयित्वा यदि सूत्रकृताङ्गसूत्रं वाचयति तदा सुत्रोक्तो दोषो भवति । श्रुतस्कन्धो यथा आवश्यकसूत्रम् तथावश्यकसूत्रमवाचयित्वा दशवै - कालिकसूत्रं वाचयति तदा श्रुतस्कन्धोक्तो दोषो भवति । अध्ययनं यथा- सामायिकमवाचयित्वा चतुर्विंशतिस्तवं वाचयति तदा अध्ययनोक्तो दोषः, अथवा शस्त्र परिज्ञाध्ययनमवाचयित्वा लोकविजयनामकमध्ययनं वाचयति तस्य तदा अध्ययनोक्तो दोषो भवति । उद्देशकेषु यथा - शस्त्रपरिज्ञाध्ययने प्रथमं श्रामण्यो देशकमवाचयित्वा द्वितीयं पृथिवीकायिकोद्देशकं वाचयति । एवमाचाराङ्गादिसुत्रेष्वपि पूर्वापरातिक्रमणे दोषो ज्ञातव्यः । एवं व्युत्क्रमेण सूत्रार्थवाचना न कर्त्तव्येति ॥ सू० १७ ॥
सूत्रम् - - जे भिक्खू णवबंभचेराई अवाएत्ता उवरिमसुयं वाएइ वातं वा साइज्जइ ॥ सू० १८ ॥
'
Acharya Shri Kailassagarsuri Gyanmandir
छाया -यो भिक्षुर्नवब्रह्मचर्याणि अवाचयित्वा उपरिमसूत्रं वाचयति वाचयन्त वा स्वदते ॥ सू० १८ ॥
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'णवबंभचेराई' नवब्रह्मचर्याणि-आचाराङ्गसूत्रस्य प्रथमश्रुतस्कन्धगतानि शस्त्रपरिज्ञार्दीनि महापरिज्ञापर्यन्तानि नवाध्ययनानि, अत्र नवब्रह्मचर्यग्रहणेन सर्वोऽपि आचारो गृहीतो भवति, स्मथवा सर्वोऽपि चरणानुयोगो गृहीतो भवति एतादृशानि नवत्रह्मचर्याणि 'अवाएत्ता' अवाचयित्वा 'उवरिमसुर्य' उपरिमश्रुतम् छेदसूत्रम् 'वाइ' वाचयति - अध्यापयति- अधीते वा ब्रह्मचर्याद्याचाराङ्ग प्रथमतोवाचयित्वा यः श्रमणः श्रमणी वा धर्मानुयोगम् समुत्थानसूत्रादि वा वाचयति यद्वा सूर्यप्रज्ञप्त्यादिकं गणितानुयोगं वाचयति, अथवा दृष्टिवाद द्रव्यानुयोगं वाचयति, अथवा यदा चरणानुयोगो वाचितो भवेतदा धर्मानुयोगमवाचयित्वा गणितानुयोगं वाचयति । एवम् 'वाएंतं वा साइज्जइ' वाचयन्तं वा श्रमणान्तरं यः स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० १८ ॥
सूत्रम् - जे भिक्खू अपत्तं वाएइ वाएंतं वा साइज्जइ ॥ सू० १९ ॥ छाया - यो भिक्षुः अपात्र घाययति वाचयन्तं वा स्वदते ॥१९॥
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्विक्षुः श्रमणः श्रमणी वा 'अपत्त' अपात्रम् - अनधिकारिणम्, यो हि शास्त्रवाचनाग्रहणस्य नाधिकारी तादृशमपात्रम् श्रमणं तद्भिन्नं का
For Private and Personal Use Only