________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निशोथसूत्रे मागत्य श्रमणाय समर्पयति तादृशं दीयमानं वस्तु यः श्रमणः श्रमणी वा 'पडिग्गाहेई' प्रतिगृह्णातिस्वीकरोति तथा 'पडिग्गाहेंतं वा साइज्जइ' प्रतिगृह्णन्तं वा स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ।। सू० १॥
सूत्रम्-जे भिक्खू वियडं पामिच्चेइ पामिच्चावेइ पामिच्चं आहटु दिज्जमाणं पडिग्गाहेइ पडिग्गाहेंतं वा ॥ सू० २॥
छाया- यो भिक्षुः विकृतं प्रामित्यति प्रामित्ययति प्रामित्यमाहृत्य दीयमानं प्रतिगृह्णाति प्रतिगृहन्तं वा स्वदते ॥ सू० २ ॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'वियर्ड' विकृतं-बहुमूल्यमचित्तं श्रमणानां श्रमणीनां वा कल्पनीयं प्रपाणकादिकं 'पामिच्चेइ' :प्रामित्यति प्रतिप्रदानप्रतिज्ञया ग्रहणं करोति उद्धाररूपेण गृह्णातीत्यर्थः 'पामिच्चावेई' प्रामित्ययति-उद्धाररूपेण परद्वारा ग्रहणं कारयति तथा 'पामिच्चं आइटु दिज्जमाणं पडिग्गाहेड' प्रामित्यमात्य दीयमानं प्रतिगृह्णाति तथा 'पडिग्गाहेंतं वा साइज्जई' प्रतिगृह्णन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० २ ॥
सूत्रम्--जे भिक्खू वियर्ड परियट्टेइ परियट्टावेइ परियट्टियं आहट्ट दिज्जमाणं पडिग्गाहेइ पडिग्गाहेंतं वा साइज्जइ ॥ स० ३॥
छाया यो भिक्षुः विकृतं परिवर्त्तते परिवर्तयति परिवर्तितमाहृत्य दीयमानं प्रतिगुहाति प्रतिगृहन्तं वा स्वदते ॥ सू० ३॥ ___चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'वियड' विकृतमचित्तं व्यपगतजीवम् द्राक्षासवादिप्रपाणकं बहुमूल्यम् 'परियट्टेइ' परिवर्तते, सत्र परिवर्तनं परावर्तनम् स्वकीयाशनवस्त्रादेरन्यस्मै समर्पणम् अन्यस्य प्रपाणकादिकस्य स्वयं प्रहणम्, स्वकीयमशनवस्त्रादिकमन्यस्मै ददाति अन्यस्य प्रपाणकादि द्रवद्रव्यं स्वयं गृह्णाति एवं परिवर्तन करोति 'परियडावेई' परिवर्तयति परद्वारा परावर्तनं कारयति तथा परियट्टियं आहट्टदिज्जमाणं पडिग्गाहेइ' परिवर्तितमाहृत्य दीयमानं प्रतिगृह्णाति, अन्यः कोऽपि समीचीनाशनक्वादीमां परावर्तनं कृत्वा तादृशं प्रपाणकादिवस्तुजातं गृहीत्वा श्रमणाय ददाति तादृशं दीयमानं तत् प्रपाणकादिकं यः श्रमणः श्रमणी वा प्रतिगृह्णाति स्वीकरोति स्वीकारयति वा तथा 'पडिग्गाहें वा साइज्जइ' प्रतिगृह्णन्तं वा परावर्तिताचित्तबहुमूल्यद्रवपदार्थस्य ग्रहणं कुर्वन्तं श्रमणान्तरं यः स्वदते अनुमोदते स प्रायश्चित्तमागो भवति ।। सू० ३ ॥
For Private and Personal Use Only