________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४०८
निशीथसूत्रे
छाया - यो भिक्षु गतो नौगतस्याशतं वा पानं वा खाद्य वा स्वाद्यं वा प्रतिगृह्णाति प्रतिगृह्णन्तं वा स्वदते ।। सू० १७ ॥
चूर्णी -- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'णाबागओ' स्वयं नौकास्थितः सन् 'णाबागयस्स नौगतस्य नौकायामेव स्थितस्य दातुः 'असणं वा अशनं वा 'पाणं वा पानं वा 'खाइमं वा खाद्यं वा 'साइमं वा स्वाद्यं वा' चतुर्विधमाहारजातम् 'पडिग्गाइ प्रतिगृह्णाति स्वीकरोति, अयं भाव-ने - नौकायामेव साधुर्भवेत् तथा नौकायामेवोपविष्टः श्रावकोऽपि भवेत् तत्र नौकास्थितः श्रमणः श्रमणी वा नौकामध्यस्थितदातुः संबन्धि अशनादिकं स्वीकरोतीति, तथा 'पडिग्गाहतं वा साइज्जइ' प्रतिगृह्णन्तं श्रमणान्तरं वा स्वद अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० १७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रम् — एवं एएणं गमेणं णावागओ जलगयस्स० || सू० १८॥ पावागओ पंकगयस्स०॥ सू० १९ ॥ णावागओ थलगयस्स० ॥ सू० २० ॥ एवं जलगएणवि चत्तारि ॥ सू० २४|| पंकगएणवि चत्तारि ॥ सू० २८ ॥ थलगएणवि चत्तारि ॥ सू० ३२ ॥
छाया - पवम् अनेन गमेन नौगतो जलगतस्य० ॥ सू० १८ || नौगतः पङ्कगतस्य ॥ सू० १९ ॥ नौगतः स्थलगतस्य ॥ सू० २० ॥ एवं जलगतेनापि चत्वारि० ॥ सू० २४ || पङ्कगतेनापि चत्वारिo || सू० २८ ॥ स्थलगतेनापि चत्वारि० ।। सू० ३२ ॥
चूर्णि - ' एवं एएणं गमेणं' एवम् अनेनैव प्रकारेण - अनयैव रीत्या एतेन गमेन अनेनैव आलापकप्रकारेण 'णावागओ जलगयस्स ० || सू० १॥ णावागयो पंकगयत्स || सू० २ || णावागओ थलगयस्स० || सू० ३|| इत्यादीनि त्रीणि सूत्राणि, एकं च पूर्वोक्तम् 'णावागओ णावागयस्स' इत्यधिकम् - एवं चत्वारि सूत्राणि नौकागतसम्बन्धीनि वाच्यानि । ० २० । एवम् अनेनैव प्रकारेण 'जलगएणवि चत्तारि' जलगतेनापि चत्वारि, चत्वारि सूत्राणि तथाहि - 'जलगओ नावागयस्स' || सू० १ || 'जलगओ जलगयस्स०||०२|| 'जलगओ पंकगयस्स' || सू० ३ || 'जलगओ थलगयस्स०' ॥ सू० ४ ॥ इत्यादीनि चत्वारि सूत्राणि ४ पंकगएण वि चत्तारि' पङ्कगतेनापि चत्वारि सूत्राणि तथाहि - 'पंकगओ 'नावागयस्स ० ' ॥ सू० १॥ पंकगओ जलगयस्स० ' ॥ सू० २|| 'पंकगओ पंकगयस्स० ' ॥ सू० ३ || 'पंकगओ थलगयस्स० ' ॥ सू० ४ ॥ इत्यादीनि चत्वारि सूत्राणि ४ । 'थलगएण वि चचारि स्थलगतेनापि चत्वारि सूत्राणि, तथाहि - 'थलगओ नावागयस्स ० ' ॥ सू० १ || 'थलगओ जलगयस्स० ' ॥ सू० २|| 'थलगओ पंकगयस्स ० ' ॥ ० ३ || 'थलगओ थलगयस्स ० ' इत्यादीनि चत्वारि सूत्राणि
For Private and Personal Use Only