________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निशीथसूत्रे
mmmmmmmmm
amaramannaari
छाया-यो भिक्षुः अविधिना पिप्पलकं याचते, याचमानं वा स्वदते ॥ सू० २५ ॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः साधुः अविधिना पिप्पलकंपिप्पलको नाम पात्रमुखादिकरणप्रयोजनकः किञ्चिद्वको हस्वक्षुरविशेषस्तम् याचते, याचमानं वा स्वदते अनुमोदयतीति पूर्ववत् ॥ सू० २५॥
सूत्रम्-जे भिक्खू अविहोए नहच्छेयणगं जायइ, जायंतं वा साइज्जइ ।। सू० २६॥
छाया-यो भिक्षुरविधिना नखच्छेदनकं याचते याच मानं वा स्वदते । सू० २६ ।।
चूर्णी---'जे मिक्खू इत्यादि । 'जे भिक्खू' यो भिक्षुः श्रमणः 'अविहीए' अविधिना, 'नहच्छेयणगं' नखच्छेदनकम् 'जायई' याचते, अन्येन याचयति, 'जायंतं वा साइज्जइ' याचमानं वा स्वदतेऽनुमोदते स प्राग्वत् ॥ सू० २६ ॥
सूत्रम्-जे भिक्खू अविहीए कण्णसोहणगं जायइ, जायंतं वा साइज्जइ ॥ २७॥
छाया-यो भिक्षुरविधिना कर्णशोधनकं याचते, याचमान वा स्वदते सू०॥२७॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'अविहीए' अविधिना 'कण्हसोहणगं' कर्णशोधनकम् 'जायइ' याचते 'जायंतं वा साइज्जई' याचमानं वा स्वदतेऽनुमोदते- इति पूर्ववत् ॥ सू० २७॥
सूत्रम्-जे भिक्खू अप्पणा एगस्स अट्ठाए सूई जाइत्ता अण्णमपणस्स अणुप्पएइ, अणुप्पयंतं वा साइज्जइ ॥ सू० २८॥
छाया--यो भिक्षुरात्मनः एकस्यार्थाय स्वीं याचित्वा अन्योन्यस्याऽनुप्रददाति, अनुप्रददतं वा स्वदते ।। सू० २८॥
चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चित्--श्रमणः 'अप्पणो एगस्स अट्ठार' आत्मन एकस्यार्थाय, तत्रात्मनः स्वस्याऽर्थाय प्रयोजनाय । 'सूई जाइत्तए' सूची याचित्वा, कश्चित् श्रमणः गृहस्थकुलं गतो भवेत् तत्र गत्वा मम वस्त्रसंधानाय सूच्याः आवश्यकतेति कथयित्वा सूची याचमानः सूची प्राप्नोति प्राप्य च स्ववसतिमागत्य । 'अण्णमण्णस्स' अन्योऽन्यस्य--अन्यस्मै साधवे 'अणुप्पएइ' अनुप्रददाति, अनुप्रदापयति । 'अणुप्पयेतं व, साइज्जई' अनुप्रददतं वा स्वदतेऽनुमोदते, स प्रायश्चित्तभागिति संक्षेपः ।। सू० २०॥
For Private and Personal Use Only