________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
चूर्णिमायावचूरिः उ०१७ सू० २५२-२५३ गायनादिकरण भेर्यादिशब्दश्रवणेच्छानिषेधः ३९५
छाया - अमुकाचार्यसदृशानि लक्षणानि खलु पश्य ममापि ।
ईदृशलक्षणयुक्तश्च भवति अचिरेण आचार्यः ॥ १ ॥
इत्यादि स्वस्य विषये व्याकरोति तथा 'वागरेंतं वा साइज्जइ व्याकुर्वन्तं वा स्वशरीरस्थं लक्षणानि प्रकाशयन्तं श्रमणान्तरं यः स्वदते - अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० २५९॥
सूत्रम् -- जे भिक्खू गाएज्ज वा हसेज्ज वा वाएज्ज वा णच्चेज्ज वा अभिणएज्ज वा हयहेसियं, हत्थिगुलगुलाइयं उक्कट्ठसीहनायं वा करेइ करेंतं वा साइज्जइ ॥ सू० २५२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
छाया - यो भिक्षुः गायेत् वा हसेद्वा वादयेद्वा नृत्येद्वा अभिनयेद्वा हयहेषितं हस्तिगुलगुलायितम् उत्कृष्टसिंहनाद वा करोति कुर्वन्तं वा स्वदते ॥ सू० २५२ ।।
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'गाएज्ज वा' गायेद्वा - गानं कुर्यात्, तत्र स्वरकरणं स्वरसञ्चारो वा गानं तत्कुर्यात् 'इसेज्ज वा' हसेद्वा मुखं विस्फाल्य सविकारकह कहकरणरूपं हसनं कुर्यात् 'वाएज्ज वा' वाद येत्-शङ्खवीणामृदङ्गादिकं वादयेत् 'नच्चेज्ज वा' नृत्येद्वा पादजङ्घोरुक ट्युदर बाहङ्गुल्विदं ब नयनभ्रमुखादीनां विकारकरणं गात्र सञ्चालनापरपर्यायं नृत्यं कुर्यात्, 'अभिणएज्ञ्ज वा' अभि नयेद्वा-अभिनय दृश्यश्रव्यादिनाटकाङ्गरूपं कुर्यात् 'हयहेसियं वा' हयहेषितं वा - अश्ववत् देषाशब्दं कुर्यात् 'हत्यिगुलगुलाइयं व' हस्तिगुलगुचायितं वा हस्तिशब्दवत् शब्दं करोति 'उक्किसीहनायं वा' उत्कृष्ट सिंहनादं वा' सिंहो यथा विलक्षण हुङ्कारशब्दं करोति तथैव सिंहशब्दानुकारिशब्दम् 'करेई' करोति स्वयमेव, परद्वारा वा कारयति तथा 'करेंतं वा साइज ' कुर्वन्तं वा श्रमणान्तरं स्वदते - अनुमोदते स प्रायश्चित्तभागी भवति ।
मंत्राह-भाष्यकारः-
गाएज्ज अहवा णच्चे. हसेज्ज जइ मोहओ । पाव आणाभंगाई, मिच्छत्तं च विराहणं ॥
छाया - गायेद्वा अथवा नृत्येत् इसेद्वा यदि मोहतः । प्राप्नोत्याशाभङ्गादि मिथ्यात्वं च विराधनम् ॥
अवचूरिः -- यदि मोहत : - मोहवशात् कारणादकारणाद्वा श्रमणः श्रमणी वा गायेत् - गानं कुर्यात्, अथवा हसेत्-कह कह - शब्दं कुर्यात् उपलक्षणत्वात् वादयेत् अभिनयेत्-अव गजादिशब्दं वा कुर्यात् तदा स आज्ञाभङ्गादिकं मिध्यात्वं विराधनं च प्राप्नोति ॥ सू० २५२ ॥
For Private and Personal Use Only