________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३८२
निशीथसूत्रे
वा, तत्र वेत्रं नाम लताविशेषः 'वेंत' इति लोकप्रसिद्धः तेन वेत्रेण निर्मितः पाशको दवरिका तेन त्रपाशकेन 'रज्जुपासरण वा रज्जुपाशकेन वा तत्र शणादिना निर्मिता या रज्जुः तस्याः पाशको दवरिका तेन रज्जुपाशकेन 'सुत्तपासएण वा' सूत्रपाशकेन वा तत्र सूत्र - कार्पासिकादिकं तेन निर्मितः पाशको दवरिका तेन सूत्रपाशकेन, एतेषां तृणादिपाशकानामन्यतमेन पाशकेन कौतूहलप्रतिज्ञया अन्यतमं त्रसप्राणजातं यः श्रमणः श्रमणी वा 'बंधइ' बध्नाति त्रसप्राणजातस्य बन्धनं करोति कारयति वा तथा 'बंधंतं वा साइज्जइ' बध्नन्तं वा श्रमणान्तरं स्वदतेअनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० १ ॥
सूत्रम् -- जे भिक्खू कोउहल्लवडियाए अण्णयरं तसपाणजायं तण - पासएण वा, मुंजपासएण वा, कट्ठपासएण वा, चम्मपासएण वा, वेत्तपासएण वा, रज्जुपासएण वा सुत्तपासएण वा, बंधेल्लगं मुयइ मुयंतं वा साइज्जइ || सू० २ ॥
छाया -यो भिक्षुः कौतूहलप्रतिज्ञया अन्यतमं जसप्राणजातं तृणपाशकेन वा अपकेन वा काष्ठपाशकेन वा धर्मपाशकेन वा वेत्रपाशकेन वा रज्जुपाशकेन वा सूत्रपाशकेन वा बद्ध मुब्वति, मुञ्चन्तं वा स्वदते ॥ सू० २ ॥
अत्राह भाष्यकारः -
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कनिक्षुः श्रमणः श्रमणी वा 'कोउ - इल्लवडियाए' कौतूहलप्रतिज्ञया - हास्यविनोदार्थाभिलाषेण 'अण्णयरं तसपाणजायं' अन्यतमं त्रसप्राणजातम् तृणादिपाशकेन 'बंधेल्लगं ' बद्धं 'मुंबई' मुञ्चति बन्धनविमुक्तं करोति, तथा 'मुयंतं वा साइज्जइ' मुञ्चन्तं वा स्वदते - बन्धनबद्धं प्राणिजातं बन्धनात् विमोचयन्तं श्रमणान्तरं स्वदते - अनुमोदते स प्रायश्चित्तभागो भवति, तस्याज्ञाभङ्गादिका दोषा अपि भवन्ति । अत्र कुतूहलादिना सप्राणिनां बन्धने मोचने च तेषामबोधत्वेन जलाग्निगर्तपातादिना मरणसंभवात्तन्निषेधः कृतः किन्तु अग्निना ज्वलतां जलेन प्लावयमानानां हिंस्रैर्हन्यमानानां सर्पादिभिर्दश्यमानानां तु दयाबुद्ध्या बन्धनं मोचनं च कर्तव्यमेव, न तन्निषेधः । सूत्रे तु कौतूहलप्रतिज्ञया बन्धनविमोचनस्यैव निषेधो न तु दयाबुद्धयेति तत्त्वम् ॥
Acharya Shri Kailassagarsuri Gyanmandir
तणाइपासजाएणं, तसाणं बंधमोयणं ।
कोहल्लेण नो कुज्जा, दयहं ण णिसिशई ॥
छाया - तृणादिपाशजातेन त्रसाणां बन्धमोचनम् । कौतूहलेन नो कुर्यात्, दयार्थे न निषिध्यते ॥
For Private and Personal Use Only