________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निशीथस्ने 'गारस्थिएहि वा सर्द्धि' गृहस्थैर्वा सार्द्धम् एकस्मिन् भाजने एकपङ्क्तौ वा समुपविश्याशनादिचतुर्विधमाहारजातम् 'भुजई' भुङ्क्ते-माहरति आहारयति वा तथा 'भुंजतं वा साइज्जई' भुञ्जानं वा श्रमणान्तरं स्वदते--अनुमोदते स प्रायश्चित्तभागी भवति ॥३८॥
सूत्रम्-जे भिक्खू अण्णउत्थिरहिं वा गारथिएहिं वा सद्धिं आवेढिय परिवढिय भुंजई भुंजंतं वा साइज्जइ ॥ सू० ३९॥
छाया-यो भिक्षुरन्ययूथिकैर्वा गृहस्थैवा सार्द्धमावेष्टय परिवेष्टय भुङ्क्ते भुजानं घा स्वदते ॥सू० ३९ ॥
चूर्णी-जे भिक्ख' इत्यादि । जे भिक्खू' यः कश्चिद्भिक्षः श्रमणः श्रमणी वा 'अण्णउथिएहि वा' अन्यतीर्थिकैर्वा तापसादिभिः 'गारथिएहि वा सद्धि' गृहस्थैर्वा सार्द्धम् 'आवेढिय'
आवेष्ट्य तत्र आवेष्टनमेकद्वित्रिदिशासु परतीथिकादिभिरावेष्टितो भूत्वा तथा-'परिवेढिय' परिवेष्टय, तत्र परिवेष्टनं सर्वदिसंबंधि दिशासु विदिसासु वा स्थितैः परतीथिकादिभिः परिवेष्टितो भूत्वा अशनपानादिकम् 'भुंजई' भुङ्क्ते भोजनं करोति कारयति वा तथा 'भुंजतं वा साइज्जई' भुञ्जानं वा मन्यतीथिंकैरावेष्टितः परिवेष्टितो मूत्वा अशनादिकं भुजानं श्रमणान्तरं स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति अन्यतीथिकादीनां समक्षमाहारकरणस्य निषिद्धत्वात् ।
अत्राह भाष्यकारःभाष्यम्- अण्णतित्थिगिहत्येहि, सद्धि संपरिवेढिओ ।
आहारं मुंजई जो उ, आणाभंगाइ पावइ ॥ छाया-अन्यतीर्थिगृहस्थैः, साई परिवेष्टितः ।
__ आहार मुक्त यस्तु, आशाभङ्गादि प्राप्नोति ॥ अवचूरिः-बो हि श्रमणः श्रमणी वा अन्यतीथिकैः तापसादिभिः गृहस्थैः पूर्वपरिचितैरपरिचितैर्वा, पूर्वसंस्तुतैः पश्चात्संस्तुतैर्वा, तत्र पूर्वसंस्तुता मातापितृभगिनीभ्रात्रादयः, गृहस्थावस्थापरिचिता अन्ये वा, पश्चात्संस्तुताः श्वशुरश्वश्रश्यालकादयः साध्वस्थापरिचिता वा, तैः सार्द्धम् संपरिवेष्टितः आवेष्टितः परिवेष्टितो वा भूत्वा यः कश्चित् श्रमणो मोहादिवशात् अशनादिकं भुङ्क्ते तथा भुजानं श्रणान्तरमनुमोदते स आज्ञाभङ्गादिकान् दोषान् प्राप्नोति तस्मात् एभिः सह न भोक्तव्यम्, न वा भुञ्जानमनुमोदयेत् प्रवचनहीलनासंभवादिति ॥ सू० ३९॥
सूत्रम्-जे भिक्खू आयरिय उवज्झायाणं सेज्जासंथारगं पारणं संघटित्ता हत्थेणं अणणुण्णइत्ता पधारेमाणे गच्छइ गच्छंतं वा साइज्जइ॥ सू०४०॥
For Private and Personal Use Only