SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ॥ षोडशोद्देशकः ॥ व्याख्यातः पञ्चदशोदशकः, साम्प्रत्तमवसर प्राप्तः षोडशोदेशको व्याख्यायते, तत्र षोडशोदेशकादिसूत्रस्य पञ्चदशोद्देशकान्तिमसूत्रेण सह कः सम्बन्ध इति चेत् अत्राह भाष्यकारः -- पुव्वंतंमि विभूसाए, पडिसेहो य बन्निओ । चरि दोसभावाओ, एत्थ सेज्जा णिसिन्झइ || छाया - पूर्वान्ते विभूषायाः प्रतिषेधश्च वर्णितः । चारित्रे हि दोषभावादत्र शय्या निषिद्धयते ॥ Acharya Shri Kailassagarsuri Gyanmandir अवचूरि :- पूर्वान्ते - पूर्वस्य - एतदपेक्षया पूर्वस्य प्राकथितस्य पचदशोदेशकस्यान्ते - चरमसूत्रे विभूषानिमित्तं -शोभार्थ पादादिप्रमार्जनादीनाम् तथा विभूषार्थं च उज्ज्वलोपविधारणस्य प्रतिषेधः वर्णितः कथितः । कथं विभूषादीनां प्रतिषेधः कृतस्तत्राह - 'चरिते' इत्यादि, चारित्रे दोषभावात् - दोषोत्पादकत्वात् उज्ज्वलोपधिधारणं शरीरविभूषादिकं च साक्षात् परम्परया वा चारित्रस्य विराधनकारणं तस्मात् कारणात् तस्य प्रतिषेधः कृतः, तत्सम्बन्धादत्र षोडशो देशकेऽपि सागारिक शय्यायाः सागारिकवसतेः प्रतिषेध एव क्रियते, सागारिकाय्याया अपि संयमविराधकत्वात् इति संयमविराधकत्वस्य उभयत्रापि समानत्वेन अयमेव सम्बन्धः पूर्वापरसूत्रयोः । पूर्वस्मिन् उद्देशके लघुचातुर्मासिकं प्रायश्चित्तं कथितम् अत्रापि तदेव कथयिष्यते इति । तदनेन सम्बन्धेन आयातस्यास्य षोडशोदेशकस्येदमादिसूत्रम् - सूत्रम् -- जे भिक्खू सागारियसेज्जं अणुष्पविसइ अणुप्पविसंतं वा साइज्जइ ॥ सू० १ ॥ ܕ For Private and Personal Use Only छाया -- यो भिक्षुः सागा रिकशय्यामनुप्रविशति अनुप्रविशन्तं वा स्वदते ॥ सू० १ ॥ चूर्णी -- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'सागारियसेज्जं ' सागारिकशय्याम, तत्र सागारिकः गृहस्थः तस्य शय्या वसतिरिति सागारिकशय्या, शेते यस्यां सा शय्या - वसतिर्निवासस्थानम् यत्रावस्थानेन मैथुनभाव उद्भवति सा सागारिकेत्येषा सामयिकी संज्ञा तेन सागारिकशम्येति दम्पत्योः शयनस्थानमित्यर्थः एतादृशं स्थानं यो भिक्षुः श्रमणः श्रमणी वा 'अणुष्पविसइ' अनुप्रविशति ओदनादिग्रहणार्थं प्रवेश करोति कारयति वा तथा--' अणुष्पविसंत वा साइज्जइ' अनुप्रविशन्तं वा स्त्रीपुरुषयोः शयनस्थाने प्रवेशं कुर्वन्तं श्रमणान्तरं स्वदते - अनुमोदते स दोषभागी भवति एतादृशस्थाने शृङ्गारसामग्रीबाहुल्येन मनोविकृतेः संभवादिति ॥ सू० १ ॥ ,
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy