________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६०
निशीथसूत्रे सूत्रम्-एवं तइयउद्दे सगमओजा व-जे भिक्खू गामाणुगामं दूइज्जमाणे विभूसावडियाए अप्पणो सीसदुवारियं करेइ करतं वा साइज्जइ ॥ सू० १०६-१६०॥
छाया-एवं तृतीयोदेशगमको यावद् यो भिक्षुः प्रामानुग्राम द्रवन् विभूषाप्रत्यः येन आत्मनः शोर्षदौवारिकं करोति, कुर्वन्तं वा स्वदते ॥ सू० १०६-१६०॥
चूर्णी-एवं तइय उद्देसगमओ' इत्यादि । एवम्-अनेनैव प्रकारेण 'तदयउद्देसगमओ' तृतीयोद्देशगमकः-तृतीयोदेशकगतषट्पञ्चाशत्सूत्रात्मकसन्दर्भकथितानि पादामार्जनसूत्रात् षोडशरूपादारभ्य 'जाव' यावत् 'जे भिक्खू गामाणुगाम' इत्येकसप्ततिसूत्रपर्यन्तसूत्राणि अग्रे संग्राह्याणि, तत्रत्यान्तिमसूत्रमेवं पठनीयम् , तथाहि-जे भिक्खू' यो भिक्षुः श्रमणः श्रमणी वा 'गामाणुगाम' प्रामानुग्रामम् एकस्माद् प्रामाद् अनुपदं द्वितीयं ग्रामम् 'दइज्जमाणे' द्रवन् विहरन् 'विभूसाबडियार' विभूषाप्रत्ययेन विभूषानिमित्तं शोभाथै तत्संपादनबुद्धचेत्यर्थः 'अप्पणो' आत्मनः स्वस्य उपरि 'सीसवारियं' शीर्षदोवारिका शीर्षावरण छत्राकारेण शीर्षस्थगनम् 'करेइ करेंतं वा साइज्जई' करोति कुर्वन्तं वा स्वदते अनुमोदते स दोषभाग भवतीति । एषां व्याख्याऽपि विभूषाप्रत्ययपदं संयोज्य तत्रैव द्रष्टव्या । विशेषः केवलमयम्-यत् तत्र पादादीनां सामान्यतया प्रमार्जनादिकं कथितम् , अत्र तु विभूषानिमित्तं प्रमार्जनादिकं वक्तव्यम् ।। सू०१०६-१६०।
सूत्रम्-जे भिक्खू विभूसावडियाए वत्थं वा पडिग्गहं वा कंबलं वा पायपुच्छणं वा अण्णयरं वा उवगरणजायं धरेइ धरंतं वा साइज्जइ ॥
__छाया-यो भिक्षुः विभूषाप्रत्ययेन वस्त्र वा प्रतिग्रहं वा कम्बलं वा पादप्रोञ्छनं वा अन्यतमं वा उपकरणजातं धरति धरन्तं वा स्वदते ॥ सू० १६१ ॥
चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः श्रमणः श्रमणी वा 'विभूसावडियाए' विभूषाप्रत्ययेन-विभूषानिमित्तेन सौन्दर्यमाश्रित्य शोभार्थमित्यर्थः, 'वत्थं वा वस्त्रं वा 'पडिग्गहं वा' प्रतिग्रह-पात्रं वा 'कंबलं बा' कम्बलमूर्णावस्त्रं वा 'पायपुच्छणं वा' पादप्रोञ्छनं वा-पादरजःशोधकं वस्त्रखण्डं रजोहरण वा 'अण्णयरं वा उवगरणजायं' एतदतिरिक्तं यत्किञ्चिदन्यतममुपकरणजातम् 'घरेइ धरंतं वा साइज्जइ' धरति-गृह्णाति धरन्तं वा स्वदते वनपात्रादिकमिदं सुन्दरमिदमसुन्दरमिति कृत्वा स्वशोभावृद्धिबुद्धया सुन्दरं सुन्दरवस्त्रपात्रादिकं धरति धरन्तं वाऽन्यमुनिमनुमोदते स प्रायश्चित्तभागी भवतीति ।। सू० १६१॥
सूत्रम्-जे भिक्खू विभूसावडियाए वत्थं वा जाव पायपुंछणं वा अण्णयरं वा उवगरणजायं धोवेइ धोवंतं वा साइज्जइ ॥सू० १६२ ॥
For Private and Personal Use Only