SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३५६ निशीथसूत्रे तत्र युग्यं - शिबिकादिकम्, तस्य स्थापनार्थं गृहं तस्मिन्, 'जुग्गसालंसि वा युग्यशालायां वा 'उच्चारपासवणं' उच्चारप्रस्रवणम्, 'परिद्ववेइ' परिष्ठापयति तथा 'परिहवेंतं वा साइज्ज ' परिष्ठापयन्तं वा स्वदते - अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० ७५ ॥ सूत्रम् — जे भिक्खू पणियगिहंसि वा पणियसालंसि वा कुवियगिहंसि वा कुवियसालंसि वा उच्चारपासवणं परिट्ठवे परिवें वा साइज्जइ || सू० ७६ ॥ छाया -यो भिक्षुः पण्यगृहे वा पण्यशालायां वा कुप्यगृहे वा कुप्यशालायां वा उच्चारप्रस्रवणं परिष्ठापयति परिष्ठापयन्तं वा स्वदते ॥ सू० ७६ ॥ चूर्णी - 'जे भिक्खू इत्यादि । जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'पणियगिहंसि वा' पण्यगृहे वा क्रयविक्रयस्थाने धा पणियसालंसि वा' पण्यशालायां वा 'कुत्रियगिहंसि वा' कुप्यगृहे वा, तत्र - कुप्यं सुवर्णरजतभिन्नं कोष्टादिपात्रं तस्य गृहे 'कुवियसा - लंसि वा' कुप्यशालायां वा 'उच्चार पासवणं' उच्चारप्रस्रवणम्, 'परिद्ववेइ' परिष्ठपयति तथा 'परिद्ववेतं वा साइज्जइ परिष्ठापयन्तं - श्रमणान्तरम् स्वदते - अनुमोदते स प्रायश्चित्तभागी भबति ॥ सू० ७६ ॥ सूत्रम् -- जे भिक्खू गोणगिहंसि वा गोणसालंसि वा महा. कुलंसि वा महागिहंसि वा उच्चारपासवणं परिद्ववेइ परिद्ववेंत वा साइ ज्जइ ॥ सू० ७७ ॥ छाया -यो भिक्षुगणगृहे वा गोणशालायां वा महाकुले वा महागृहे वा उच्चारप्रवर्ण परिष्ठापयति, परिष्ठापयन्तं वा स्वदते ॥ सु०७७ ॥ चूर्णी - जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'गोणगि हंसि वा' गोणगृहे वा, तत्र गोणगृहं गवां गृहम् यत्र गावो बध्यन्ते गोशालेति प्रसिद्धम् तस्मिन् 'गोणसालंसि वा' गोशालायां वा 'महाकुलंसि वा' महाकुले वा - इम्र्म्यादिकुले 'महागिहंसि वा ' महागृहे वा बृहत्परिवारयुक्ते बृहदाकारयुक्ते वा गृहे 'उच्चारपासवर्ण' उच्चारप्रवणम् 'परिद्ववे ' परिष्ठापयति 'परिद्ववेंतं वा साइज्जइ' परिष्ठापयन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति । अत्राह भाष्यकारः -- आगंतु गाइठाणेसु, उच्चारं पस्सव तहा । परिgs जो भिक्खु, आणाभंगाइ पावई || छाया - आगन्तुकादिस्थानेषु उच्चारं प्रस्रवं तथा । परिष्ठापयति यो भिक्षुराशाभङ्गादि प्राप्नोति ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy