SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चर्णिभाष्यावधूरिः उ० १५ सू० ७३-७७ शून्यगृहादिषु-उच्चारादिपरिष्ठापननि० ३५५ छाया-यो भिक्षुः शून्यगृहे वा शून्यशालायां वा भिन्नगृहे वा भिन्नशालायां वा कूटागारे वा कोष्ठागारे वा उच्चारप्रस्रवणं परिष्ठापयति परिष्ठापयन्तं वा स्वदते ॥७३॥ चूर्णिः-- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'मुन्नगिहंसि का' शून्यगृहे वा यत्र गृहे न कोऽपि वसति तादृशगृहे 'मुन्नसालंसि वा' शून्यशालायाम् यत्र शालायां न कोऽपि वसति तस्याम् 'भिन्नगिहंसि वा भिन्नगृहे वा-भम्नगृहे इत्यर्थः 'भिन्नसालंसि वा' भिन्नशालायां वा भग्नशालायाम् 'कूडागारंसि वा' कूटागारे वा-कूटाकारगृहे 'कोडागारंसिवा' कोष्ठागारे वा या दशस्थाने धान्यादिकं स्थापयति तस्य कोष्ठागार इति नाम भवति द्रस्मिन् कोष्ठागारगृहे कोष्ठागारशाळायां च 'उच्चारपासवणं परिद्ववेइ' उच्चारप्रनवणं परिष्ठापयति 'परिहवते वा साइज्जइ' परिष्ठापयन्तं वा स्वदते-अनुमोदते स प्रायश्चित्तभाग् भवति ।। सू०७३॥ सूत्रम्-जे भिक्खू तणगिहंसि वा तणसालंसि वा तुसगिर्हसि वा तुससालंसि वा भुसमिहंसि वा भुससालंसि वा उच्चारपासवर्ण परिट्ठवेइ परिठवते वा साइज्जइ ॥ सू०७४ ॥ छाया-यो भिक्षुः तृणगृहे वा तृणशालायां वा तुषगृहे वा तुषशालायां का भुसगृहे वाभुसशालायां वा उच्चारप्रस्रवणं परिष्ठापयति परिष्ठापयन्तं वा स्वदते ७ चूर्णी-'जे भिक्खू इत्यादि । 'जे भिक्खू यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'तणगिहंसि वा' तृणगृहे वा-तृणस्थापनगृहे अथवा तृणनिर्मिते गृहे 'तणसालंसि वा' तृणशालायां वा तृणभृतशालायाम् 'तुसगिर्हसि वा' तुषगृहे 'तुससालंसि वा' तुषशालायां वा 'भुसगिर्हसि वा भुसगृहे वा, तत्र गोधूमादीनां स्तम्बः, तस्य चूर्णाकृतोऽवयवः 'भूपा' इतिलोकप्रसिद्धः तस्य संस्थापनस्थानं भुसगृहमिति तस्मिन् भुसगृहे 'भुससालंसि वा' भुसशालासं वा, एतादशस्थानेषु यो भिक्षुः 'उच्चारपासवणं' उच्चारप्रस्रवणम् 'परिहवेई' परिष्ठापयति ‘परिद्ववेतं का साइज्जइ' परिष्ठापयन्तं वा स्वदते–अनुमोदते स प्रायश्चित्तभागी भवति ।। सू० ७४ ॥ सूत्रम्-जे भिक्खू जाणगिहंसि वा जाणसालंसि वा जुम्मगिहंसि वा जुग्गसालंसि वा उच्चारपासवणं परिहवेइ परिठवेतं वा साइज्जइ । सू०७५॥ छाया-यो भिक्षुर्यानगृहे वा यानशालायां वा युग्यगृहे वा युग्यशालायां वा उच्चारप्र वर्ण परिष्ठापर्यात परिष्ठापयन्तं वा स्वदते । सू० ७५ ।। चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'जाणगिर्हसि वा' यानगृहे-रथादिस्थापनगृहे वा 'जाणसालंसि वा' यानशालायां वा 'जुग्गगिहंसि ' युग्यगृहे वा, For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy